________________
५७० ]
सिद्धान्तकौमुदी ।
[ श्रात्मनेप
किम् - बुभूषति । 'शदेः -' ( सू २३६२ ) इत्यादिसूत्रद्वये 'ग्लो' 'न' हनु वर्त्य वाक्यभेदेन व्याम्येयम् । तेनेह न - शिशत्सति । मुमूषति । प्राप्रत्ययवस्कृञोऽनुप्रयोगस्य' ( सू २२४० ) एधांचक्रे । २७३५ प्रोपाभ्यां युजेरयज्ञपात्रेषु । ( १-३-६४ ) प्रयुङ्क्ते । उपयुङ्क्ते । 'स्वर द्यन्तोपसर्गादिति वक्तव्यम्' ( वा १३१ ) । उद्युङ्के । नियुङ्क्ते । अयज्ञपात्रेषु किम-इन्द्वं यति पात्राणि प्रयुनक्ति । २७३६ समः दवः । ( १-२-६५ ) संघणुते शस्त्रम् । २७३७ भुजोऽनवने । ( १-३-६६ ) श्रोदनं भुङ्क्ते । श्रभ्य
सन्प्रकृतेरेधधातोरात्मनेपदित्वात्तत्प्रकृतिकसन्नन्तादात्मनेपदम् । 'नेर्विशः' इत्यात्मनेपदविधानात्तत्प्रकृतिकसन्नन्तादपि श्रात्मनेपदम् । ननु 'शदेः शितः ' 'म्रियतेर्लुङ्लिङोश्च' इत्यात्मनेपदविधानात् शिशत्सति मुमूर्षति इत्यत्रापि सन्नन्तादात्मनेपदं स्यादित्यत श्राह शदेरित्यादीति । श्रादिना 'म्रियतेर्लुङलिङोश्च' इलस्य प्रहणम् । शदेरित्यादिसूत्रद्वये 'पूर्ववत्समः' इति 'नानोज्ञः' इत्यतो नेति चानुवर्त्य शदेत्रियतेश्च सन्नन्तान्नात्मनेपदमिति व्याख्येयमित्यर्थः । नन्वेवं सति शीयते म्रियते इत्यादावात्मनेपदं न लभ्येतेत्यत आह वाक्यभेदेनेति । 'शदेः शितः ' ' म्रियते लुङ्लिङोश्च' इति एकं वाक्यम् । शिद्भाविनः शदेरात्मनेपदं स्यात् मृडो लुलिङ् प्रकृतिभूतात् शित्प्रकृतिभूताच्चात्मनेपदं स्याद् नान्यत्रेत्यर्थः । तेन शीयते म्रियते ममारेत्यादि सिध्यति । सनो नेत्यपरं वाक्यम् । शदेः म्रियतेश्च सन्नन्तान्नात्मनेप मित्यपरम् । तेन शिशत्सति, मुमृषति इत्यादौ नात्मनेपदमित्यर्थः । प्रोपाभ्याम् । श्रात्मनेपदमिति शेषः । स्वरेति । स्वरौ च यन्तौ यस्य स स्वराद्यन्तः । तथाभूते पसर्गात्परत्व एव युजेरात्मनेपदमित्यर्थः । द्वन्द्वमिति । द्वन्द्वं द्विशो न्यञ्चि अधोबिलानीत्यर्थः । समः क्ष्णुवः । आत्मनेपदम् इति शेषः । 'समो गम्यृच्छिभ्याम्' इत्यत्रैव 'समो गम्यृच्छिदरगुवः' इति न सूत्रितम्, तथा सति श्रकर्मकादित्यनुवृत्त्या सकर्मक न स्यात् । तत्सूचयन्नुदाहरति संदणुते शस्त्रमिति । तीक्ष्णीकरोतीत्यर्थः । भुजोऽनवने । अवनं रक्षणम् । ततोऽन्यत्र भुजेरात्मनेपदमित्यर्थः । ननु 'भुज पालनाभ्यवहारयोः' इति धातु
‘नेर्विशः' इत्यात्मनेपदविधानात्सन्नन्तादपि आत्मनेपदम् । सनो नेत्यनुवर्त्येति । 'नानोज्ञः ' ' पूर्ववत्सनः' इति सूत्राभ्यामिति शेषः । समः क्ष्णुवः । 'समो गम्यृच्छिदणुभ्यः' इति पठनीये पृथगस्य पाठः सकर्मकादपि विधानार्थ ति ध्वनयन्नुदाहरति संदणुते शस्त्रमिति । भुजोऽनवने । अवनं पालनम्, अदने इति वक्तव्ये अनवन इति पर्युदासस्य प्रयोजनद्वयम् । संयोगवद्विप्रयोगस्यापि विशेषावधारहेतुत्वाद्रौघादिकस्यैव भुजेर्महणमित्येकम् श्रदनादर्थादर्थान्तरेऽप्युपभोगादौ श्रात्म
.)