________________
प्रकरणम् ६० बालमनोरमा-तत्त्वबोधिनीसहिता। [५६६ सनः। (१-३-१७) सन्नन्तानामेषां प्राग्वत् । धर्म जिज्ञासते । शुश्रूषते । सुस्मूर्षते । दिदक्षते । २७३२ नानोः । (१-३-५८) पुत्रमनुजिज्ञासति । पूर्वसूत्रस्यैवायं निषेधः । 'अनन्तरस्य-' (प ६२) इति न्यायात् । तेनेह नसर्पिषोऽनुजिज्ञासरे । सर्पिषा प्रवर्तितुमिच्छतीत्यर्थः । 'पूर्ववस्सनः' (सू २७३४) इति तङ् । 'प्रकर्मका' (सू २७१८) इति केवलाद्विधानात् । २७३३ प्रत्याभ्यां श्रुवः। (१-३-५६) प्राभ्यां सन्नन्ताव उक्तं न स्यात् । प्रतिशुश्रूषति । अाशुश्रषति । कर्मप्रवचनीयात्स्यादेव, देवदत्तं प्रति शुश्रूषते । 'शदेः शितः' (स् २३६२), 'नियतेलुंलिङोश्च' (सू २५३८) व्याख्यातम् । २७३४ पूर्ववत्सनः। (१-३-६२) सनः पूर्वो यो धातुस्तेन तुल्यं समन्तादप्यात्मनेपदं स्यात् । एदिधिषते । शिशयिषते । निविविधते । पूर्ववत् शाश्रु । प्राग्वदिति । आत्मनेपदमित्यर्थः । यद्यपि 'अपहवे ज्ञः, अकर्मकाच, सम्प्रतिभ्यामनाध्याने' इति सूत्रः 'अर्तिश्रुशिभ्यश्च' इति वार्तिकेन च ज्ञादिभ्यः
आत्मनेपदे कृते पूर्ववत्सनः' इत्यात्मनेपदं सिद्धम् , तथाप्यपह्नवाद्यभावेऽप्यात्मनेपदार्थ ज्ञाचदृशीनाभिह ग्रहणमिति मत्वोदाहरति धर्म जिज्ञासते इति । ज्ञातुमिच्छतीत्यर्थः । शुश्रूषते इति । 'अच्झनगमां सनि' इति दीर्घः। 'इको झल' इति सनः कित्त्वम् । 'श्रयुकः किति' इति इरिनषेधः । सुस्मृर्षते इति । स्मृधातोः सनि 'अज्झन-' इति दीर्घ 'उदोष्ट्यपूर्वस्य' इत्युत्त्वे रपरत्वे 'हलि च' इति दीर्घः । नानोः । अनुपूर्वाद् ज्ञाधातोः सन्नन्ताद् नात्मनेपदमित्यर्थः । पुत्रमनुजिज्ञासतीति । अनुज्ञातुनिच्छतीत्यर्थः । ननु सर्पिषा प्रवर्तितुमिच्छतीत्यर्थे सर्पिषोऽनुजिज्ञासते इत्यत्रापि "प्रपह्नवे ज्ञः, अकर्मकाच' इत्यात्मनेपदस्याप्यनेन निषेधे सति सनन्तात्परस्मैपदमेव स्यादित्यत आह पूर्वसूत्रस्यैवेति । एवं च सर्पिषोऽनुजिज्ञासते इत्यत्र 'अकर्मकाच्च' इत्यात्मनेपदं निर्बाधमिति भावः । ननु 'अकर्मकाच्च' इति ज्ञाधातोरात्मनेपदे सन्नन्तात्कथमात्मनेपदलाभ इत्यत आह पूर्ववदिति । केवलात् सन्विहीनाद् ज्ञाधातोरात्मनेपदविधानात् सन्नन्तादपि तस्मात् पूर्ववत्सनः' इत्यात्मनेपदमित्यर्थः । प्रत्याभ्यां श्रुवः । उक्तं नेति । आत्मनेपदं नेत्यर्थः । प्रत्याला. विहोपसर्गावेव गृह्यते, व्याख्यानात् , तदाह कर्मप्रवचनीयात्स्यादवेति । श्रात्म नेपदमिति शेषः । देवदत्तं प्रतीति । 'लक्षणेत्यम्भूत-' इति प्रतिः कर्मप्रवच. नीयः । पूर्ववत्सनः । पूर्वेणेव पूर्ववत् । 'तेन तुल्यम्-' इति तृतीयान्ताद्वतिः । पूर्वशब्देन सन्प्रकृतिर्विवक्षिता, तदाह सनः पूर्व इत्यादि । एदिधिषते इति । नेन सिद्धेऽपि विषयान्तरे सन्नन्तादनेन विधीयत इति ज्ञेयम् । निविविक्षत इति।