________________
५६८ ] सिद्धान्तकौमुदी। [श्रात्मनेपदइति षष्ठी । तेन सूत्रद्वयमिदं व्यवहितेऽपि प्रवर्तते । रथेन समुदाचरते । दास्या संप्रयच्छते । २७२६ उपाद्यमः स्वकरणे । (१-३-५६) स्वकरणं स्वीकारः। भार्यामुपयग्छते । २७३० विभाषोपयमने । (१-२-१६) यमः सिस्किद्वा स्याद्विवाहे । रामः सीतामुपायत-उपायंस्त वा । उदवोढेत्यर्थः । गन्धनाङ्गे उपयमे तु पूर्वविप्रतिषेधाचित्यं किश्वम् । २७३१ शाश्रुस्मृदृशां व्यवधानादित्यत आह पूर्वसूत्रे सम इति षष्ठीति । तथा च षष्ठया पौर्वापर्यमेव गम्यते । न त्वव्यवहितत्वमिति भावः । तेनेति । षष्ठयाश्रयणेनेत्यर्थः । सूत्रद्वयमिति । 'समस्तृतीयायुक्तात्' इति पूर्वसूत्रस्थस्य षष्ठ्यन्तस्यैव 'दाणश्व-' इति सूत्रेऽप्यनुवृत्तेरिति भावः। उपाद्यमः। श्रात्मनेपदमिति शेषः। ननु खं वस्त्रमुत्पादयतीत्यर्थे वस्त्रमुपयच्छतीत्यत्राप्यात्मनेपदं स्यादित्यत आह खकरणं स्वीकार इति । अस्वस्य सतः स्वत्वेन परिग्रहः खकरणशब्देन विवक्षित इत्यर्थः। विप्रत्ययस्तु वैकल्पिकः, 'समर्थाना प्रथमाद्वा' इत्युक्तरिति भाष्ये स्पष्टम् । भार्यामुपयच्छते इति । अन्यदीयां कन्यां भार्यात्वेन परिगृङ्णातीत्यर्थः । विभाषोपयमने । 'यमो गन्धने' इत्यतो यम इति 'हनः सिच्' इत्यतः सिजिति 'असंयोगात्-' इत्यतः किदिति चानुवर्तते, तदाह यमः सिच्किद्वा स्याद्विवाहे इति । उपयमशब्दो विवाहे वर्तते इति भावः। रामः सीतामुपायतेति । भार्यात्वेन स्वीकृतवानित्यर्थः । सिचः कित्त्वपक्षे 'अनुदात्तो. पदेश-' इति मकारलोपे 'हखादशात्' इति सिचो लोपः । उदवोति । भार्यात्वेन परिप्रह उद्वाहः । गन्धनाने उपयमे विति । हिंसापूर्वके विवाहे वित्यर्थः, राक्षसविवाहे विति यावत् । 'हत्वा भित्त्वा = शीर्षाणि रुदती रुदतो हरेत् । स राक्षसो विवाहः' इति स्मृतेः । नित्यं कित्त्वमिति 'यमो गन्धने' इति पूर्वसूत्रेणति शेषः । यदि गन्धनाङ्ग केऽप्युपयमने परत्वादियं विभाषा स्यात् तर्हि एषा प्राप्तविभाषा स्यात् । ततश्च 'न वेति विभाषा' इत्यत्र भाष्ये अप्राप्तविभाषासु अस्याः परिगणनं विरुध्येत । अतः पूर्वविप्रतिषेध आश्रयणीयं इति भावः । अप्राप्तविभाषा। स्वकरणं स्वीकार इति । स्वकरणमित्यत्र चिर्न भवति, 'समर्थानां प्रथमादा' इति विकल्पात् । स्वकरणशब्देन भास्विीकारो गृह्यते इति वृत्तिकृत् । भट्टिस्तु खीकारमात्रऽपि प्रायुक्त 'उपायंस्त महास्त्राणि' इति । गन्धनाङ्गे इति । पूर्वविप्रतिषेधश्च 'नवेति विभाषा' सूत्रे भाष्ये उक्तः । नित्यं कित्त्वमिति । 'यमो गन्धने' इति पूर्वसूत्रेणेत्यर्थः । ज्ञाश्रुस्मृ । 'अपहवे ज्ञः' इत्यादिना ज्ञाधातोः 'अर्तिश्रुशिभ्यश्व-' इति श्रुदृशिभ्यां चात्मनेपदे कृते तस्मिन्विषये 'पूर्ववत्सनः' इत्य