________________
प्रकरणम् ६० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६७ विरुद्धोक्तिरूपे व्यकवाचा समुच्चारणे उक्तं वा स्यात् । विप्रवदन्ते, विप्रवदन्ति वा वैद्याः । २७२४ अवाद् ग्रः । (१-३-५१) अवगिरते । 'गृणातिस्त्व. वपूर्वो न प्रयुज्यत एव' इति भाष्यम् । २७२५ समः प्रतिज्ञाने । (१-३-५२) शब्दं नित्यं सगिरते, प्रतिजानीते इत्यर्थः । प्रतिज्ञाने किम्-सङ्गिरति ग्रासम् । २७२६ उदश्वरः सकर्मकात् । (१-३-५३) धर्ममुच्चरत । उल्लङ्घय गच्छतीत्यर्थः । सकर्मकात् किम्-बाष्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः । २७२७ समस्तृतीयायुक्तात् । (१-३-५४) रथेन सञ्चरते । २७२८ दाणश्च सा चेच्चतुर्थ्यर्थे । (१-३-५५) सम्पूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् , सा च तृतीया चेच्चतुयर्थे । दास्या संयच्छते । पूर्वसूत्रे समः ग्रहणात् । अन्यथा चन्द्र इव मुखमित्यादावपि तृतीयाषष्टयोरापत्तेरित्यलम् । विभाषा विप्रलापे इति । 'व्यक्तवाचां समुच्चारणे' इत्यनुवर्तते । विरुद्धोक्तिविप्रलापः, तदाह विरुद्धोक्तिरूपे इति । अवादु ग्रः । आत्मनेपदमिति शेषः । गृ इत्यस्य प्र इति पञ्चमी । प्रकृतिवदनुकरणमित्यस्यानित्यत्वाद् 'ऋत इद्धातोः' इति न भवति। तदनित्यत्वे इदमेव मानम् । अवगिरत इति । शविकरणोऽयम् । अवगृणातीत्यत्राप्यात्मनेपदमाशङ्कयाह गृणातिस्त्विति । एवं च तुदादेरेव प्रहणमिति भावः । समः प्रतिज्ञाने। गिरतेरात्मनेपदमित्यर्थः । प्रतिज्ञानम् अभ्युपगमः । संगिरति ग्रासमिति । भक्षयतीत्यर्थः । उदश्चरः। उत्पूर्वाचरधातोः सकर्मकादात्मनेपदमित्यर्थः । समस्तृतीया। सकर्मकादिति निवृत्तम् । संपूर्वात् तृतीयान्तसमभिव्याहृताचरेरात्मनेपदमित्यर्थः । तृतीयायुक्तादिति किम् ? रथिकाः संचरन्ति । अत्र यद्यपि रथेनेत्यर्थाद् गम्यते, तथापि तृतीयान्तश्रवणाभावानात्मनेपदम् । एतदर्थमेव योगग्रहणम् , अन्यथा तृतीययेत्येवावक्ष्यत् । सकर्मकादप्येतदात्मनेपदं भवति, अविशेषात् , अत एव तृतीयायुक्तादिति किम् ? उभौ लोकौ संचरसीमं चामुं च लोकम्' इति भाष्यं संगच्छते। दाणश्च सा । 'समस्तृतीयायुक्तात्' इत्यनुवर्तते तदाह संपूर्वादिति । उक्तं स्यादिति । आत्मनेपदमित्यर्थः । सा चेदिति । तच्छब्देन तृतीया परामृश्यते, तदाह तृतीया चेदिति । दास्या संयच्छते इति । 'अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया वाच्या' इति तृतीया। ननु रथेन समुदाचरते इत्यत्र ‘समस्तृतीयायुक्तात्' इति पूर्वसूत्रस्य न प्रवृत्तिः, आङ व्यवहितत्वेन सम्पूर्वकत्वाभावात् , 'तस्मादित्युत्तरस्य' इतिं परिभाषया सम इति पञ्चम्या चरेः अव्यवहितपरत्वलाभात् । तथा दास्यां संप्रयच्छते इत्यत्रापि 'दाणश्च सा चेत्-' इति कथं प्रवर्तते । प्रशब्देन