________________
५६६ ]
सिद्धान्तकौमुदी। [आत्मनेपद. वदः । (१-३-४७) उपसंभाषोपमन्त्रणे धातोर्वाच्ये, इतरे प्रयोगोपाधयः । शाने वदते । भासमानो ब्रवीतीत्यर्थः । उपसंभाषा उपसान्त्वनम् । भृत्यानुपवदते । सान्त्वयतीत्यर्थः । ज्ञाने-शास्त्रे वदते । यत्ने-क्षेत्रे वदते । विमतौ-क्षेत्रे विवदन्ते । उपमन्त्रणमुपच्छन्दनम् । उपवदते, प्रार्थयते इत्यर्थः । २७२१ व्यक्तवाचां समुच्चारणे । (१-३-४८) मनुष्यादीनां संभूयोच्चारणे वदेरास्मनेपदं स्यात् । संप्रवदन्ते ब्राह्मणाः । नेह-संप्रवदन्ति खगाः। २७२२ अनोरकर्मकात् । (१-३-४६) व्यकवाग्विषयादनुपूर्वादकर्मकाद्वदेरात्मनेपदं स्यात् । अनुवदते कठः कलापस्य । अकर्मकात् किम्-उक्त्रमनुवदति । ग्यनवाची किम्-अनुवदति वीणा । २७२३ विभाषा विप्रलापे । (१-३-५०) कर्मणि' इति षष्ठ्येव स्यान्न तु द्वितीयेति वाच्यम् , तत्र शेष इत्यनुवर्त्य कर्मणः शेषत्वविवक्षायां षष्ठी, कर्मत्वविवक्षायां तु द्वितीयेत्यभ्युपगमात् । न चैवं सति 'षष्ठी शेषे' इत्यनेनैव सिद्धत्वाद् 'अधीगर्थ-' इति व्यर्थमिति वाच्यम् , मातुः स्मरणमित्यादौ शेषषष्ठयाः समासाभावार्थत्वादिति कारकाधिकरि प्रपञ्चितम् । भासनोपसंभाषा। आत्मनेपदमिति शेषः । इतरे इति । भासनज्ञानादय इत्यर्थः । प्रयोगोपाधय इति । इदं 'सम्माननोत्सअन-' इत्यत्र व्याख्यातं प्राक् । भासनं तु तत्तदाक्षेपेषु समाधानाय नवनवयुक्त्युल्लेखः । शास्त्रे वदते इति । विषयसप्तम्येषा । भासमान इति । नवनवयुक्तीरुल्लिखतीत्यर्थः । शास्त्रे वदते इति विषयसप्तमी, व्यवहरतीत्यर्थः । व्यवहारश्च ज्ञानं विना न संभवतीति ज्ञानमार्थिकम् । ज्ञात्वा व्यवहरतीति फलितम् । क्षेत्रे विवदन्त इति । विरुद्धं व्यवहरन्तीत्यर्थः । विरुद्धव्यवहारश्च वैमत्यमूलक इति विमतिरार्थिकी। उपवदते इति । उपपूर्वस्य वदेः प्रार्थनमर्थः, तदाह प्रार्थयते इत्यर्थ इति । व्यक्तवाचाम् । व्यक्ताः अज्झल्भेदेन स्पष्टोच्चारिता वाचः शब्दाः येषामिति विग्रहः । समित्येकीभावे, तदाह मनुष्यादीनामिति । संप्रवदन्ते ब्राह्मणा इति । संभृयो. च्चारयन्तीत्यर्थः । अनोरकर्मकात् । व्यक्तवाचामित्यनुवृत्तं विषयषड्यन्तमाश्रीयते । समुच्चारणे इति निवृत्तम् , तदाह व्यक्तवाग्विषयादिति । मनुष्यकर्तृकादित्यर्थः । अनुवदते इति । अनुः सादृश्ये । 'तुल्यार्थैरतुलोपमाभ्याम्-' इति षष्ठी । कठः कलापेन तुल्यं वदतीत्यर्थः । वस्तुतस्तु शेषषष्ठीत्येवोचितम् । 'तुल्यार्थैः-' इत्यत्र अतुलोपमाभ्यामिति पर्युदासेन अनव्ययानामेव तुल्यार्थानां नोपसंभाषा । एषु किम् , यत्किंचिद्वदति । अनुवदते कठ इति । अनुः सादृश्ये । तेन कलापस्येति तुल्यार्थयोगे शेषलक्षणा षष्ठी। विभाषा विप्रलापे।