________________
प्रकरणम् ६०] बालमनोरमा तत्त्वबोधिनीसहिता। [५६५ शतमपजानीते, अपनपतीत्यर्थः । २७१८ अकर्मकाञ्च । (१-३-४५) सर्पिषो जानीते, सर्पिषोपायेन प्रवर्तत इत्यर्थः । २७१६ संप्रतिभ्यामनाध्याने । (१-३-४६) शतं संजानीते, अवेक्षते इत्यर्थः । शतं प्रतिजानीते, अङ्गीकरोतीत्यर्थः । अनाध्याने इति योगो विभज्यते । तस्सामयाद 'अकर्मकाच्च' (सू २०१८) इति प्राप्तिरपि बाध्यते । मातरं मातुर्वा संजानाति । कर्मणः शेषत्वविवक्षायां षष्ठी। २७२० भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु रिति भावः। वृत्त्यादाविति । वृत्तिसर्गतायनेषु तु पूर्वविप्रतिषेधानित्यमेवेत्यर्थः । अपह्नवे क्षः । अपह्नवः अपलापः । तवृत्ताधातोरात्मनेपदमित्यर्थः । अकर्मकाच्च । ज्ञ आत्मनेपदमिति शेषः । सर्पिषो जानीत इति । अत्र ज्ञाधातुः प्रवृत्तौ वर्तते । 'ज्ञोऽविदर्थस्य करणे' इति तृतीयार्थे षष्ठी, तदाह सर्पिषोपायेन प्रवर्तत इति । 'अनुपसर्गात् ज्ञः' इति वक्ष्यमाणेनैव सिद्धे सोपसर्गार्थमिदम् । सर्पिषोऽनुजानीते । सम्प्रतिभ्यामनाध्याने । ज्ञ आत्मनेपदमिति शेषः । अवेक्षत इत्यर्थ इति । अकर्मकत्वाभावात् पूर्वेणाप्राप्तिरिति भावः । अनाध्याने किम् ? मातरं संजानाति । आध्यायतीत्यर्थः । उत्कण्ठापूर्वकं स्मरणमाध्यानम् । ननु यदा प्राध्याने कर्मणः शेषत्वविवक्षया षष्ठीमाश्रित्य मातुः संजा. नीति इति प्रयुज्यते तदा सम्पूर्वो जानातिरयमकर्मक इति स्थितिः । तत्र 'संप्रतिभ्यामनाध्याने' इत्यात्मनेपदस्याप्रवृत्तावपि 'अकर्मकाच' इति सूत्रेणात्मनेपदं दुर्वारम्, तत्र अनाध्याने इत्यभावात् । संप्रतिभ्यामित्यत्र अनाध्यानग्रहणस्य मातरं संजानातीति सकर्मके चारतार्थत्वादित्यत आह अनाध्याने इति योगो विभज्यत इति । ततश्च 'संप्रतिभ्याम्' इत्येको योगः। संप्रतिपूर्वाद् ज्ञ आत्मनेपदमित्यर्थः । 'अनाध्याने' इति योगान्तरम् । अनाध्याने संप्रतिभ्यामात्मनेपदमित्यर्थः । ततः किमित्यत आह अकर्मकाच्चेति प्राप्तिरपि बाध्यत इति । ननु अनन्तरस्येति न्यायेन सम्प्रतिभ्यामित्यस्यैव बाधो युक्त इत्यत आह तत्सामादिति । एकसूत्रत्वेनैव सिद्ध अनाध्याने इति योगविभागाद्यवहितस्यापि बाध इत्यर्थः । ननु मातरं मातुर्वा संजानाति इत्यत्र मातुः कर्मत्वाद् द्वितीयैव युक्तेत्यत आह कर्मणः शेषत्वविवक्षायां षष्ठीति । न चैवमपि 'अधीगर्थदयेशा वृत्त्याद्यर्थेष्वेवोपपराभ्यामिति प्रवृत्तेन वात्मनेपदं शङ्कयमिति भावः । वृत्त्यादी त्विति । न च वृत्त्यादिसूत्रं सोपसर्गे चरितार्थमित्यनुपसर्गात्कमेवृत्त्याद्यर्थेऽपि विभापैवास्त्विति वाच्यम् , उपपराभ्यामिति नियमस्योकत्वात् । अकर्मकाञ्च । 'अनुपसर्गाज्ज्ञः' इत्यनेनैव सिद्ध सर्पिषोऽनुजानीते इत्यादिसोपसर्गार्थमिदं सूत्रम् । भास