________________
५६४ ]
सिद्धान्तकौमुदी ।
[ आत्मनेपद
1
तायनेषु क्रमः । (१-३ - ३८ ) वृत्तिरप्रतिबन्धः । ऋचि क्रमते बुद्धिः, न प्रतिहन्यत इत्यर्थः । सर्ग उत्साहः । अध्ययनाय क्रमते, उत्सहते । क्रमन्तेऽस्मिन् शास्त्राणि, स्फीतानि भवन्तीत्यर्थः । २७१२ उपपराभ्याम् | ( १-३-३९ ) वृस्यादिष्वाभ्यामेव क्रमेर्न तुपसर्गान्तरपूर्वात् । उपक्रमते । पराक्रमते । नेह - संक्रामति । २७१३ श्राङ उद्गमने । ( १-३-४० ) श्राक्रमते सूर्यः । उदयते इत्यर्थः । 'ज्योतिरुद्रमने इति वाच्यम्' ( वा १२१ ) । नेहश्राक्रामति धूमो हर्म्यतलात् । २७१४ वेः पादविहरणे । ( १ - ३ - ४१ ) साधु विक्रमते वाजी । पादविहरणे किम्-विक्रामति सन्धिः, द्विधा भवति, स्फुटतीत्यर्थः । २७१५ प्रोपाभ्यां समर्थाभ्याम् । (१-३- ४२ ) समर्थों तुल्यार्थी, शकन्ध्वादित्वात् पररूपम् । प्रारम्भेऽनयोस्तुल्यार्थता । प्रक्रमते । उपक्रमते । समर्थाभ्यां किम्-प्रक्रामति, गच्छतीत्यर्थः । उपक्रामति, श्रागच्छतीत्यर्थः । २७१६ अनुपसर्गाद्वा । ( १-३-४३) क्रामति, क्रमते । श्रप्राप्तविभाषेयम् । वृत्त्यादौ तु नित्यमेव । २७१७ अपह्नवे ज्ञः । (१-३-४४)
न विवक्षितम् अतो नात्मनेपदमिति भावः । वृत्तिसर्ग । प्रात्मनेपदमिति शेषः । तायने उदाहरति क्रमन्तेऽस्मिन्निति । तायनं वृद्धिः, तदाह स्फीतानीति । उपपराभ्याम् । वृत्तिसर्गतायनेषु क्रम इत्यनुवर्तते । तेनैव सिद्धे नियमार्थमिदम्, तदाह श्रभ्यामेव क्रमेरिति । श्रात्मनेपदमिति शेषः । श्राङ उमने । आङः परस्मादुगमनवृत्तेः क्रम आत्मनेपदमित्यर्थः । श्राक्रमते सूर्य इति । श्राङ्पूर्वः क्रमिरुद्रमनार्थकः, तदाह उदयते इत्यर्थ इति । उपसर्गवशादिति भावः । वेः पादविहरणे । पादविहरणं पादविक्षेपः। तद्वृत्तेर्विपूर्वात् क्रमेरात्मनेपदमित्यर्थः । साधु विक्रमते वाजीति । सम्यक्पदानि विक्षिपतीत्यर्थः । प्रोपाभ्याम् । क्रम आत्मने. पदमिति शेषः । समौ अर्धी ययोरिति विग्रह इत्याह समय तुल्यार्थाविति । सवर्णदीर्घमाशङ्कयाह शकन्ध्वादित्वादिति । ननु प्रक्रमत इत्यत्र प्रतिशयितपदविक्षेपार्थप्रतीतेः, उपक्रमते इत्यत्र समीपे पदानि विक्षिपतीति प्रतीतेः कथमनयोस्तुल्यार्थकत्वमित्यत आह प्रारम्भे ऽनयोस्तुल्यार्थतेति । तथा च आर
भार्थाभ्यामिति फलितमिति भावः । अनुपसर्गाद्वा । क्रम श्रात्मनेपदमिति शेषः । श्रप्राप्तविभाषेयमिति । अनुपसर्गात् क्रमेः श्रात्मनेपदस्य कदाप्यप्राप्ते
सर्ग । ताय सन्तानपालनयोः । तायनं स्फीतता तदाह स्फीतानीति । प्रवृद्धानीत्यर्थः । वेः पाद । यद्यपि क्रमेः पादविक्षेप एवार्थस्तथापि धातूनामनेकार्थत्वादेवमुक्तम् । प्रोपाभ्याम् । प्रोपाभ्यां प्रारम्भे इत्येव सुवचम् । उपक्रामतीति ।