________________
प्रकरणम् ६०] बालमनोरमा तत्त्वबोधिनीसहिता। [५६३ निश्चिनोतीत्यर्थः । कर्मकरानुपनयते, भृतिदानेन स्वसमीपं प्रापयतीत्यर्थः । विगणनमृणादेनिर्यातनम् । कर विनयते, राज्ञे देयं भागं परिशोधयतीत्यर्थः । शतं विनयते, धार्थ विनियुक्रे इत्यर्थः । २७१० कर्तृस्थे चाशरीरे कर्मणि । (१-३-३७) नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्रासं तच्छरीरावयवभिन्न एव स्यात् । सूत्रे शरीरशब्देन तदवयवो लचयते। क्रोधं विनयते, अपगमयति । तत्फलस्य चित्तप्रसादस्य कर्तृगस्वात् 'स्वरितभितः-' (स २१५८) इत्येव सिद्धे नियमार्थमिदम् । तेनेह न-गडं विनयति । कथं तर्हि 'विगणय्य नयन्ति पौरुषम्' इति । कर्तृगामित्वाविवक्षायां भविष्यति। २७११ वृत्तिसर्ग:
इति स्मरणात् । तथा च आचार्यकरणमुपनयनसाध्यत्वादार्थिकमिति भावः । ज्ञान इति । उदाह्रियते इति शेषः। निश्चिनोतीत्यर्थ इति । नयतिनिश्चयार्थक इति भावः। मृतौ उदाहरति कर्मकरानुपनयते इति । मृतिः वेतनम् , तदर्थ कर्म करोतीति कर्म करः । 'कर्मणि भृतौ' इति टप्रत्ययः । कर्मण्युपपदे कृअष्टः स्यात्कर्तरीति तदर्थः । उपपूर्वको णीञ् समीपपापणार्थकः । समीपप्रापणं च मृत्यर्थमिति कर्मकरशब्दसमभिव्याहाराद्गम्यते, फलितमाह भृतिदानेनेति । ऋणादेरिति । आदिना करादिसंग्रहः । निर्यातनं प्रत्यर्पणादि। करं विनयत इति । राज्ञे देयो भागः करः, विपूर्वो णीञ् परिशोधनार्थकः, तदाह राक्षे देयं भागं परिशोधयतीति । परिगणयति दातुमित्यर्थः । व्यये उदाहरति शतं विनयते धर्मार्थमिति । अत्र विपूर्वो णीञ् व्ययार्थकः, तदाह विनियुक्त इत्यर्थ इति । कर्तृस्थे । निय इति । कर्मकारके कर्तृस्थे सति णीञ्धातोर्यदात्मनेपदं कर्तृगे फले मित्त्वात् प्राप्तम्, तत् शरीरावयवभिन्न एव सति कर्मकारके स्यात् । कर्मणः शरीरावयवत्वे तु कर्तृगेऽपि फले परस्मैपदमेवेत्यर्थः । ननु सूत्रे शरीरग्रहणात् कथं शरीरावयवेत्युक्तमित्यत आह सूत्रे इति । शरीरतादात्म्यापनस्यैव कर्तृतया शरीरस्य कर्तृस्थत्वं न संभवति । शरीरावयवानां तु समवायेन आधारतया तत्संभवतीति भावः । ननु क्रोधापगमस्य क्रोधविषयशत्रुगतानिष्टपरिहारफलकत्वाद् मित्त्वेऽप्यात्मनेपदाप्राप्तेस्तद्विध्यर्थत्वात्कथमुक्तनियमार्थत्वमस्य सूत्रस्येत्यत आह तत्फलस्येत्यादि। गडं विनयतीति । कर्मणो गडोः शरीरावयवत्वान्नात्मनेपदमित्यर्थः । कथं तहीति । पौरुषस्य कर्मणः शरीरावयवभिन्नतया आत्मनेपदप्रसङ्गादिति भावः । कर्तृगामित्वेति । कर्तृस्थे कर्मणि नियः कर्तृगे फले जित्त्वात् प्राप्तमात्मनेपदं शरीरावयवभिन्न एवेति नियम्यते, न तु विधीयते। अत्र तु फलस्य कर्तृगामित्वं सदपि इति स्मृतिः। कर्तृस्थे । कर्मणीति । आत्मगामिनि क्रियाफले इत्यर्थः । वृत्ति