________________
५६२ ] सिद्धान्तकौमुदी। [आत्मनेपद२७०८ अकर्मकाच्च । (१-३-३५) वेः कृष इत्येव । छात्रा विकुर्वते । विकार लभन्ते । २७०६ संमाननोत्सअनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः। (१-३-३६) अत्रोत्सानज्ञानविगणनव्यया नयतेर्वाच्याः । इतरे प्रयोगोपाधयः । तथा हि शास्ने नयते, शास्त्रस्थं सिद्धान्तं शिष्येभ्यः प्रापयतीत्यर्थः । तेन च शिष्यसंमाननं फलितम् । उत्सअने, दण्डमुन्नयते, उस्क्षिपतीत्यर्थः । माणवकमुपनयते, विधिना प्रात्मसमीपं प्रापयतीत्यर्थः । उपनयनपूर्वकेणाध्यापनेन हि उपनेतरि प्राचार्यत्वं क्रियते । ज्ञाने तत्वं नयते, विपूर्वादात्मनेपदमित्यर्थः । अकर्मकाच्च । वे कृत्र इत्येवेति । तथा च अकर्मकाद् विपूर्वात् कृत्र आत्मनेपदमित्यर्थः विकुर्वते इत्येतद्याचष्टे विकारं लभन्ते इति । लामे विकारस्य कर्मत्वेऽपि धात्वर्थोपसंग्रहादकर्मकत्वम् । संमाननोत्सअन । एषु गम्येषु णीग्धातोरात्मनेपदमित्यर्थः । परगामिन्यपि फले आत्मनेपदार्थमिदम् । इतरे इति। संमाननाचार्यकरणप्रभृतय इत्यर्थः । प्रयोगोपाधय इति । वाच्यत्वाभावेऽपि अार्थिकाः सत्तामात्रेण शब्दप्रयोगे निमि तभूता इत्यर्थः । आत्मनेपदद्योत्या इति यावत् । तदेवोपपादयितुं प्रतिजानीते तथा हीति। संमानने उदाहरति शास्त्रे नयत इति । अत्र णीञ् प्रापणार्थकः । सिद्धान्तमित्यध्याहार्यम् । सिद्धान्तं प्रत्यधिकरणत्वात् शास्त्रे इति सप्तमी, तदाह शास्त्रस्थमिति । तेनेति । सिद्धान्तप्रापणेनेत्यर्थः । फलितमिति । अर्थादिति भावः। उत्सअने इति । उदाह्रियते इति शेषः । उत्सजनमुत्तेपः । उत्तिपतीत्यर्थ इति । धातूनामनेकार्थत्वादिति भावः । आचार्यकरणे उदाहरति माणवकमुपनयते इति । उपपूर्वो णीञ् समीपप्रापणार्थकः । सामीप्यं च प्रत्यासत्त्या प्रापयित्रपेक्षमेव । तच्च माणवकीयमात्मसमीपप्रापणं वैधमेव विवक्षितम् , पूर्वोत्तराङ्गकलापानानसामर्थ्यात् , तदाह विधिना आत्मसमीपं प्रापयतीति । तत्राचार्यकरणस्यार्थिकत्वमुपपादयति उपनयनपूर्वकेणेति । 'माणवकमुपनयीत तमध्यापयीत इत्यध्यापनार्थत्वमुपनयनस्यावगतम् , अध्यापनादाचार्यत्वं संपद्यते,
'उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः ।
सकल्पं सरहस्यं च तमाचार्य प्रचक्षते ॥' युधे–'प्रोक्तं प्राज्ञे वनममृतं जीवनीयं दकं च' इति । संमानन । उपनयनपूर्वकेणेति । उपनयनं बटुसंस्कारः। तस्य परगामित्वात्परस्मैपदे प्राप्ते अनेनात्मनेपदं विधीयते । नढ्युपनयनमात्रेण आचार्यत्वं भवति, किं तु तत्पूर्वकाध्यापनेनेत्याचार्यकरणस्य प्रयोगोपाधित्वं परंपरया ज्ञेयम् । 'उपनीय ददद्वेदमाचार्यः स उदाहृतः'