________________
प्रकरणम् ६० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५६१
"
नुकूलत्वाद्विसैव । अव पणं भर्त्सनम् । श्येनो वर्तिकामुदाकुरुते भर्त्सयतीत्यर्थः । हरिमुपकुरुते, सेवते । परदारान्प्रकुरुते तेषु सहसा प्रवर्तते । एधोदकस्योपस्कुरुते, गुणमाधत्ते । गाथाः प्रकुरुते प्रकथयति । शतं प्रकुरुते, धर्मार्थ विनियुङ्क्ते । एषु किम कटं करोति । २७०६ अधेः प्रसहने । ( १-३-३३ ) प्रसहनं समाभिभवश्च षह सर्पगोऽभिभवे च इति पाठात् । शत्रुमधिकुरुते, क्षमते इत्यर्थः । श्रभिभवतीति वा । २७०७ वेः शब्दकर्मणः । (१-३-३४) स्वरान्विकुरुते, उच्चारयतीत्यर्थः । शब्दकर्मणः किम्-चित्तं विकरोति कामः ।
सुरमाह्वयते इति । स्पर्धार्थमाकारयतीत्यर्थः । गन्धनावक्षेपण । श्रात्मनेपदम् श्रकर्त्रभिप्रायेऽपीति शेष: । गन्धनं हिंसेति । गन्ध अर्दने । अर्द हिंसायामित्युक्तेरिति भावः । सूचतीति । परदोषमाविष्करोतीत्यर्थः । नन्वेवं सति कथमस्य गन्धने वृत्तिः ? हिंसाया असत्त्वादित्यत श्राह सूचनं हीति । श्येनो वर्तिकामिति । वर्तिका शकुनिविशेषः । साहसिक्ये उदाहरति परदारान् प्रकुरुते इति । साहस प्रवृत्तिविष करोतीत्यर्थः । सहसा वर्तते साहसिकः, 'श्रीजस्सहोऽम्भसा व्रतते' इति ठक् । तस्य कर्म असमीक्ष्यकरणं साहसिक्यम् । तदाह तेषु सहसा प्रवर्तत इति । फलिनार्थकथनमिदम् साहस प्रवृत्तिमात्रार्थकले द्वितीयानुपपत्तेः । श्रतः साहस प्रवृत्तिविषयीकरणपर्यन्तानुधावनमिति बोध्यम् । प्रतियत्ने उदाहरति धोदकस्योपस्कुरुते इति । एधशब्दः अदन्तः 'अवदधद्मप्रश्रथहिमश्रथाः' इति सूत्रे निपातितः । एवश्वः उदकं चेति समाहारद्वन्द्वः । यद्वा एकशब्दः सकारान्तो नपुसकलिङ्गः । एधश्च दकं चेति विप्रः । दकशब्द उदकवाची । 'प्रोक्तं प्राज्ञैर्भुक्ाममृर्त जीवनीयं दकं च' इति हलायुधः । 'काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित् त्रियाम्' इत्यमरः । प्रतियत्नो गुणाधानमित्यमित्रेत्याह गुणमाधत्ते इति । काष्ठस्य शोषणादिगुणाधानम् । दकस्य तु गन्ध द्रव्यसंपर्कजनितगन्धाधानम् । अधेः प्रसहने । अधेः परस्मात् कृभः प्रसहतेरात्मनेपदमित्यर्थः । वे शब्दकर्मणः । शब्दः कर्मकारकं यस्य तस्मात् कुञ
•
I
श्रर्दने । श्रहिंसायामित्यनयोश्चुरादौ पाठादिति भावः । सहसा वर्तते साहसिकः । ‘ओजःसहोम्भसा-' इति ठक् । तस्य कर्म साहसिक्यम् । ब्राह्मणादित्वाल्यञ् । परदारानित्यादि । तान्वशीकरोतीत्यर्थः । साहसिक्यं न धात्वर्थः । तथा हि सति परदारानिति कर्मणोऽन वयः स्यात्, किं तु प्रयोगोपाधिरित्यभिप्रेत्याह तेषु सह सेति । एधोदकस्येति । एधशब्दोऽकारान्तः 'श्रवोदधौन-' इति निपातितः । एधाश्च उदकं च एष समाहारः । यहा एधः शब्दः सकारान्तः । तथा च एसि च दकं चेति विमहः । दक्शब्दोऽप्युदकदाच्येवेत्यर्थोऽत्र न भिद्यते । उक्तं च हला