________________
५६० ] सिद्धान्तकौमुदी। [आत्मनेपद
वहति भारम् । नदी वहति, स्यन्दते इत्यर्थः । जीवति । नृत्यति । प्रसिद्धेर्यथा-मेघो वर्षति । कर्मणोऽविवक्षातो यथा-'हितात्र यः संशृणुते स किंप्रभुः' । 'उपसगोदस्यत्यूयोर्वेति वाच्यम्' (वा १२०)। अकर्मकाद् इति निवृत्तम् । बन्धं निरस्यति, निरस्यते । समूहति, समूहते। २७०२ उपसर्गादभ्रस्व ऊहतेः। (७-४-२३) यादो क्छिति । ब्रह्म समुह्यात् । अग्नि समुद्य। २७०३ निसमुपविभ्यो ह्वः। (१-३-३०) नियते । २७०४ स्पर्धायामाऊः। (१-३-३१) कृष्णश्चाणूरमाह्वयते । स्पर्धायां किम्-पुत्रमाह्नयति । २७०५गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृत्रः। (१-३-३२) गन्धनं हिंसा । उस्कुरुते । सूचयतीत्यर्थः । सूचनं हि प्राणवियोगाअविवक्षात इति चत्वारि वाक्यानि । अकर्मिका क्रियेति सर्वत्रान्वेति । कर्मण इति तु द्वितीयादिषु वाक्येष्वन्वेति । वहति भारमिति । प्रापयतीत्यर्थः । अत्र सकमकत्वमिति भावः । अस्यार्थान्तरे क्वचिदकर्मकत्वमुदाहरति नदी वहतीति । स्यन्दते इति । प्रस्रवतीत्यर्थः । धात्वर्थोपसंप्रहे उदाहरति जीवतीति । नृत्यतीति । जीवेः प्राणधारणमर्थः । नृतस्त्वङ्गविक्षेपः । उभयत्रापि कर्मणो धात्वर्थान्तर्भावान्न सकर्मकत्वमिति 'सुप प्रात्मनः-' इति सूत्रे भाष्ये स्पष्टम् । मघो वर्ष तीति । वर्षणकर्मणो जलस्य प्रसिद्धत्वादकर्मकत्वम् । हितान्न य इति । हितात्पुरुषाद् यो न संशृणुते-स्वहितं न मन्यते स किंप्रभुः, कुत्सित इत्यर्थः । अत्र खहितस्य वस्तुतः कर्मत्वेऽपि तदविवक्षया अकर्मकत्वमिति भावः । एवं चास्मिनकर्मकाधिकारे हनिगम्यादीनां सतोऽपि कर्मणः अविवक्षया अकर्मकत्वं सिद्धमिति बोध्यम् । अकर्मकत्वनिर्णयोऽयं 'लः कर्मणि-' इत्यादौ उपयुज्यते । उपसर्गादस्यत्यूह्योर्वेति । आत्मनेपदमिति शेषः । निवृत्तमिति । सोपसर्गयोरस्यत्यूयोः सकर्मकत्वनियमादिति भावः । उपसर्गाद् ध्रस्व ऊहतेः। यादौ क्लिति इति शेषपूरणम्, 'अयङ् यि विति' इत्यतः तदनुवृत्तेरिति भावः । ब्रह्म समुह्यादिति । ऊह वितर्के, सम्यग्विचारयेदित्यर्थः । अत्र आशीर्लिङि यासुटः कित्त्वेन ऊकारस्य ह्रखः । अग्निं समुह्येति । परितस्संमृज्येत्यर्थः। क्त्वादेशस्य ल्यपः कित्त्वमिति भावः । निसमुपवि । हेअः कृतात्त्वस्य ह इति पञ्चम्यन्तम् । निह्वयते इति । संह्वयते। उपह्वयते। विह्वयते । अत्रभिप्रायार्थमिदम् । स्पर्धायामाङः। श्रापर्वकात् स्पर्धाविषयकाद् द्वेज आत्मनेपदमित्यर्थः । कृष्णश्चाचरति द्यवतीत्यत्र यण् न स्यात् किं तु 'पुगन्त-' इति गुण एव स्यात् । तथा च समाप्टें येव वक्तव्ये समातेति लेखकप्रमाद इत्याहुः । गन्धनं हिंसेति । गन्ध