________________
प्रकरणम् ६० ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५५६
समार्षाताम् समार्पत इति च भ्वादेः । इयर्तेस्तु मा समरत मा समरेताम् मा समरन्त इति, सम्ारत समारेताम् समारन्त इति च । संशृणुते | संपश्यते । अकर्मकादित्येव । अत एव 'रक्षांसीति पुरापि संशृणुमहे' इति मुरारिप्रयोगः प्रामादिक इत्याहुः । अध्याहारो वा 'इति कथयद्भयः' इति । अथास्मिश्च कर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् शृणु, धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥
समाष्टृत्येवोचितमिति वाच्यम्, 'सिज्लोप एकादेशे सिद्धो वाच्यः' इति वचनेन पूर्व सिज्लोपे पश्चादाटश्चेति वृद्धेः प्रवृत्तिसंभवादित्यलम् । इयर्तेस्त्विति । श्लुविकरणऋधातोरित्यर्थः । मा समरतेति । 'सर्तिशास्त्यर्ति -' इत्यङ्, तत्र इयर्तेर्ग्रहणादिति भावः । ‘ऋदृशोऽङि-' इति गुणः । समारतेति । 'आटश्व' इति वृद्धिः । इति चेति । इयर्ते रूपमित्यन्वयः । तदेवम् 'अर्तिदृशिभ्य -' इत्यत्र अर्तिप्रपञ्चमुक्त्वा श्रुधातोरुदाहरति । संभ्टणुते इति । दृशेरुदाहरति संपश्यते इति । श्रकर्मकादित्येवेति । 'समों गम्यृच्छिभ्याम्' इत्यत्र अकर्मकादित्यनुवृत्तेरभ्युपगतत्वेन तत्रोपसंख्यातवार्तिकेऽस्मिन् तदनुवृत्तेर्युक्तत्वादिति भावः । अत एवेति । प्रामादिक इत्याहुरित्यत्रान्वयः, सकर्मकत्वेनात्मनेपदासंभवादिति भावः । अध्याहारो वेति । इति कथयद्भष इत्यध्याहारो वेत्यन्वयः । तथा च रक्षांसीति कथयद्भयः पुरा संशृणुमहे इत्यत्र कथन एव रक्षसामन्वितत्वात् श्रुवः श्रकर्मककत्वादात्मनेपदं निर्बाधमिति भावः । धातोरिति । धातोरर्थान्तरे वृत्तेरिति धात्वर्थेनोसंप्रहादिति, प्रसिद्धेरिति,
·
इति सिज्लोपाप्रवृत्त्या समार्ष्टति रूपं स्यात् । न च हस्वाद्विहितस्येति व्याख्याना - दिष्टसिद्धिरिति वाच्यम्, विहितविशेषणे मानाभावात् । उदायत आहतेत्याद्यसिध्यापत्तेश्च । अत्र केचित् - - ' सिज्लोप एकादेशे सिद्धो वाच्यः' इत्यनेन पूर्व सिज्लोपे पश्चाद् वृद्धिर्भवति । एकादेशे इति विषयसप्तम्याश्रयणात् । न चैवमध्यैष्टेति न सिध्येत्, तत्राप्युक्तरीत्या पूर्व सिज्लोपे वृद्धौ सत्यामध्येतेति रूपत्रसङ्गादिति वाच्यम्, 'वार्णादानं बलीयः' इति पूर्वमेव गुणे कृते सिज्लोपो न प्रवर्तते इति 'आटश्च' इति वृद्धौ कृतायामध्यैष्टेति रूपस्य निर्बाधत्वात् । समार्तेत्यत्र तु 'उश्च' इति कित्त्वेन गुणाप्रवृत्त्या पूर्वमेव सिज्लोपे पश्चाद् 'आटश्च' इति वृद्धिरिति वैषम्यमित्याहुः । अन्ये तु सिज्लोपानन्तरं यत्रैकादेशः प्रसज्यते तत्रैव सिज्लोपः सिद्धो यथा अग्रहीदिति । न चात्र तादृशो विषयोऽस्ति । किं च 'वादाङ्गं बलीयः' इति पूर्वमेव गुणे कृते इत्यादि यदुकं तदसत् समानाश्रये हि वार्णादानं बलीयः । अन्यथा द्यौरिवा
"