________________
५५८ ] सिद्धान्तकौमुदी। [श्रात्मनेपदभ्यां किम्-प्रामं संगच्छति । 'विदिप्रच्छिस्वरतीनामुपसंख्यानम्' (वा ११८)। वेत्तेरेव ग्रहणम् । संवित्ते संविदाते । २७०१ वेत्तेर्विभाषा । (७-१-७) वेत्तेः परस्य झादेशस्यातो रुडागमो वा स्यात् । संविद्रते संविदते । संपृच्छते । संस्वरते। 'भर्तिश्रुडशिभ्यश्चेति वक्तव्यम्' ( वा १२६ ) । अर्तीनि द्वयोर्ग्रहणम् । अविधौ स्वियर्तेतेवेत्युक्तम् । मा समृत मा समृषाताम् मा सम्षत इति, समात च्छते इति । 'ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु' इति तौदादिकस्य रूपम् । अत्र तौदादिकस्य ऋच्छतेरेव ग्रहणम् , नतु ऋच्छादेशस्येति सूचयितुं लुडन्तमप्युदाहरति समृच्छिष्यते इति । विदिप्रच्छिस्वरतीनामिति । सम इत्यनुवर्तते । संपूर्वेभ्यो विदिप्रच्छिस्वरतिभ्य आत्मनेपदमित्यर्थः। वेत्तेरिति । लुग्विकरणस्यैव विदर्ग्रहणमित्यर्थः, व्याख्यानादिति भावः । वेत्तेर्विभाषा। झोऽन्तः' इत्यतो म इत्यनुवर्तते । 'अदभ्यस्तात्' इत्यतः अदित्यनुवृत्तं षष्ठया विपरिणम्यते । 'शीडो रुट्' इत्यतो रुडिति च, तदाह वेत्तः परस्येत्यादिना । अर्तिश्रुदृशिभ्य इति । संपूर्वेभ्यरतङिति शेषः । द्वयोरिति । भौवादिकस्य इयर्तेश्वेत्यर्थः । अड्विधौ त्विति । 'सर्तिशास्त्यतिभ्यश्च' इत्यत्रेत्यर्थः । मा समृतेति । 'उश्च' इति सिचः कित्त्वान्न गुणः । 'हस्वादशात्' इति सिचो लोपः। मायोगे मा समृतेत्यादि । माझ्योगाभावे तु समातेत्यादि इत्येवं भौवादिकस्य ऋधातो रूपमित्यर्थः । माङ्योगादाडभावः । अथ माल्योगाभावे आडागमे उदाहरति समातेति । सम् श्रा ऋ स् त इति स्थिते 'उश्च' इति कित्त्वाद् गुणनिषेधे 'श्राटश्च' इति वृद्धि बाधित्वा परत्वाद् 'ह्रस्वादशात्' इति सिचो लोपे 'आटश्च' इति ऋकारस्य वृद्धौ रपरत्वे रूपम् । न च सिन्लोपस्यासिद्धत्वाद् आटश्चेति वृद्धौ कृतायां ह्रस्वादङ्गादिति सिज्लोपस्याप्रवृत्त्या च्छेरत्र ग्रहणं न तु ऋच्छादेशस्येति ध्वननार्थम् । ग्राम संगच्छतीति । 'तच्चैक्यं समगच्छत' इत्यत्र तु एकं जातमित्यर्थाद्गमेरकर्मकत्वमेवेति तङ् । एकमेवैक्यम् । खार्थे प्यञ् । विदिप्रच्छि। परस्मैपदिसाहचर्यादाह वेत्तेरेवेति । विन्दतिर्हि खरितेत् । सत्ताविचारणार्थयोस्तु अनुदात्तेत्त्वादेव सिद्धम् । न च निरनुबन्धपरिभाषयैव वेत्तेर्ग्रहणं स्यादिति वाच्यम् , 'लुग्विकरणाऽलुग्विकरणयोः-' इति परिभाषया तु विन्दतेर्ग्रहणप्रसङ्गात् , वेत्तेर्विभाषा । 'शीडो रुट्' इत्यतो रुडनुवर्तते, 'अदभ्यस्तात्' इत्यतः अदित्यनुवर्य षष्ठ्यन्तत्वेन विपरिणम्यत इत्याह अतो रुडागम इति । अङ्किधौ त्विति । 'सतिशास्त्यति-' इति लुप्तविकरणेन शासिना साहचर्यादिति भावः । मा समृतेति । 'उश्च' इति कित्त्वम् । माल्योगादडभावः । समातेति । ननु सिज्लोपस्यासिद्धत्वाद् 'पाटश्च' इति वृद्धौ कृतायां 'हस्खादशात्'