________________
प्रकरणम् ६० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५५७ न्यतरस्याम् । (२-४-४४) हनो वधादेशो वा लुडि आत्मनेपदेषु परेषु । मावषिष्ट श्रावधिषाताम् । २६६७ हनः सिन् । (१-२-१४) किरस्यात् । अनु. नासिकलोपः । पाहत माहसाताम् माहसत । २६६८ यमो गन्धने । (१-२-१५) सिकिकरस्यात् । गन्धनं सूचनं परदोषाविष्करणम् । उदायत । गन्धने किम्-उदायंत पादम् । प्राकृष्टवानित्यर्थः । २६६६ समो गम्यच्छिभ्याम । (१-३-२६) अकर्मकाभ्याम् इत्येव । सङ्गच्छते । २७०० वा गमः। (१-२-१३) गमः परौ मलादी लिसिचौ वा किती स्तः । सगसीष्ट, सगसीष्ट । समगत, समगस्त । समृच्छते । समृच्छिष्यते । अकर्मका. शब्दाध्याहारान्न पञ्चमीत्यर्थः । भेत्तुमित्यादीति । एवं च ल्यब्लोपपञ्चम्या न प्रसक्किरिति भावः । 'श्राजन्ने विषम-' इत्यत्र परिहारान्तरमाह समीपमेत्येति वेति। अध्याहार इति शेषः । विषमविलोचनस्य समीपमेत्य स्वीयमेव वक्षो मल्ल इव वीरावेशादास्फालयांचके इत्यर्थः । तथा च स्वाङ्गकर्मकत्वादात्मनेपदं निर्वाधमिति भावः । लुङि अाहन् स् त इति स्थिते हनः सिच् । कित्स्यादिति शेषपूरणम् । 'असंयोगाल्लिट कित्' इत्यतः तदनुवृत्तेरिति भावः । हन्धातोः परः सिच् कित्स्यादिति फलितम्। अनुनासिकलोप इति । 'अनुदात्तोपदेश-' इति नकारलोप इत्यर्थः । उत् श्रा यम् स् त् इति स्थिते । यमो गन्धने । सिकित्स्यादिति । शेषपूरणम् । सिचः कित्त्वे मकारस्य अनुदात्तोपदेश इति लोपः। समो गम्यच्छिभ्याम । श्रात्मनेपदमिति शेषः । अकर्मकाभ्यामित्येवेति । स्वाङ्गकर्मकाचेति तु निवृत्तमिति भावः । संगच्छते इति । संगतं भवतीत्यर्थः । वा गमः। 'इको झल्' इत्यतो झलिति 'लिब्सिचावात्मनेपदेषु' इत्यतो लिङ्सिचाविति 'असंयोगालिट्-' इत्यतः किदिति चानुवर्तते, तदाह गमः परावित्यादि । समगतेति । लुङि रूपम् । सिचा कित्त्वपक्षे 'अनुदात्तोपदेश-' इति मकारलोपे ‘ह्रस्वादङ्गात्' इति सिचो लुक् । समृदीति । एवं च ल्यब्लोपपञ्चम्याः प्रसक्तिरेव नास्तीति भावः । समीपमेत्येति । विषमविलोचनस्य समीपमेत्य वक्ष श्राजन्ने । स्वकीयमेव वक्षो मल्ल इव सन्तोषातिशयादास्फालयाचक्रे इत्यर्थात्खाङ्गकर्मकत्वमस्त्येवेति भावः । आत्मनेपदेविति । तीत्येव सुवचम् । 'समो गम्युच्छिप्रच्छिखरत्यर्तिविदिभ्यः' इति वृत्तिस्यं पाठमुपेक्ष्य भाष्यस्थं पाठमनुसरति समो गम्युच्छिभ्यामिति। संगच्छत इति । सङ्गतं भवतीत्यर्थः । वा गमः । 'अयं सोगाल्लिट् कित्' इत्यतः किदनुवर्तते, 'इको झल्' इत्यतो झल्पहणम्, 'लिङ्सिचौ-' इत्यतो लिङ्सिचाविति चानुवर्तते । कित्वपक्षे 'अनुदात्तोपदेश-' इति मलोपः । समृच्छिष्यत इति लुटः प्रयोगस्तु तौदादिकऋ