________________
प्रकरणम् ६०] बालमनोरमा-तत्त्वबोधिनीसहिता। [५५५ 'उपाद्देवपूजासंगतिकरणमित्रकरणपथिग्विति वाच्यम्' (वा ११४ ) । प्रादित्य. मुपतिष्ठते । कथं तर्हि 'स्तुत्यं स्तुतिभिरभिरुपतस्थे सरस्वती' इति, देवता. स्वारोपात्, नृपस्य देवतांशस्वाद्वा । गङ्गा यमुनामुपतिष्ठते, उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते, मित्रीकरोतीत्यर्थः । पन्थाः सनमुपतिष्ठते, प्रामोतीत्यर्थः । 'वा लिप्सायामिति वक्रग्यम्' ( वा ११६ )। भिक्षुकः प्रभुमुपतिष्ठते, उपतिष्ठति वा, लिप्सया उपगच्छतीत्यर्थः । २६६३ अकर्मकाच । (१-३-२६) उपात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् । भोजनकाल उपतिष्ठते, संनिहितो भवतीत्यर्थः । २६६४ उद्विभ्यां तपः । (१-३-२७) अकर्मकाद् इत्येव । मानात्स्थाधातोरात्मनेपदमित्यर्थः । आग्नेय्या आग्नीध्रमुपतिष्ठते इति । आग्नेय्या ऋचा आग्नीध्राख्यमण्डपविशेषमुपेत्य तिष्ठतीत्यर्थः । स्थितेरकमेकत्वेऽपि उपेत्येतदपेक्ष्य सकर्मकत्वम् । केचित्तु मन्त्रकरणके समीपावस्थितिपूर्वकस्तवे विद्यमानात् स्थाधातो. रात्मनेपदमिति व्याचक्षते । तत्र स्तवो गुणवत्त्वेन संकीर्तनमिति स्तुतशस्त्राधिकरणे प्रपञ्चितमस्माभिः । श्लोकै राजानं स्तोतीत्यर्थे श्लोकैरुपतिष्ठते इत्यात्मनेपदं न, मन्त्रकरणकत्वाभावात् । 'उपाद्देवपूजा-' इति वार्तिकम् अमन्त्रकरणकत्वार्थम् । श्रादित्यमुपतिष्ठते इति । अभिमुखीभूयावस्थितिपूर्वकस्तुत्यादिभिः पूजयतीत्यर्थः । कथं तीति । रघोदेवतात्वाभावादिति भावः । समाधत्ते देवतात्वारोपा. दिति । नृपस्येति । 'नाविष्णुः पृथिवीपतिः' इत्यादिस्मरणादिति भावः । वा लिप्सायामिति । लिप्साहेतुकार्थवृत्तेः स्थाधातोरात्मनेपदं वेत्यर्थः। अकर्मकाच्च। उपात्तिष्ठतेरिति । 'उपान्मन्त्रकरणे' इत्यतः 'समवप्रविभ्यः स्थः' इत्यतश्च तदनुमन्त्रकरणं स्तुतिः, तत्र वर्तमानादुपपूर्वात्तिष्ठतेरात्मनेपदं स्यात् । आग्नेय्येति । अग्निदेवताकया ऋचा आग्नीध्रमग्निविशेषं स्तोतीत्यर्थः । अत्र केचित् श्लोके राजानं स्तौतीत्यर्थे श्लोकैरुपतिष्ठत इति प्रयोगो नेष्यते । ऐन्द्या गार्हपत्यमुपतिष्ठते । आग्नेय्यां श्राग्नीध्रमिति वैदिकविषय एव सर्वैरुदाहृतत्वात् । तथा च तिष्ठतेरर्थे यदा मन्त्रः करणं तदा तरिति व्याख्येयम् । उपतिष्ठत इत्यस्य तु समीपावस्थानमेवार्थः । न च तत्र यष्ट्यादिवन्मन्त्रस्थ करणत्वं न संभवतीति वाच्यम् , उपस्थानस्वरूपे तस्योपयोगाभावेऽपि तत्कार्ये स्तुतावुपयोगादुपस्थानकरणत्वं मन्त्रस्य न विहन्यते । आमीध्रमिति द्वितीया तु करणत्वान्यथानुपपत्तिलभ्येन स्तोतुमित्यनेनान्वेति । एवं चामेय्या प्राग्नीध्र स्तोतुं तत्समीपे तिष्ठतीत्येव वाक्यार्थः । श्रादित्यमुपतिष्ठते इत्यत्र तु तत्समीपावस्थानस्यासंभवादादित्यं स्तोतुं तदभिमुखतया तिष्ठतीत्यर्थ इत्याहुः । गङ्गा यमुनामिति । एतेन यमुनैव प्राचीना गङ्गा तु पश्चाद्यमुनया सह मिलितति प्रती