________________
प्रकरणम् ६०] बालमनोरमा-तत्त्वबोधिनीसहिता [५५३ हर्षादिष्वेव वक्रव्यः' ( वा ३७०६) । अपस्किरते वृषो हृष्टः, कुक्कुटो भवार्थी, श्वा श्राश्रयार्थी च । हर्षादिषु इति किम्-मपकिरति कुसुमम् । इह तसुटी न । हर्षादिमात्रविवक्षायां यद्यपि तङ् प्राप्तस्तथापि सुडभावे नेष्यते इत्याहुः । गजोऽपकिरति । 'प्राङि नुप्रच्छयोः' (वा ६०१)। भानुते। आपृच्छते । 'शप उपालम्भे (वा १११)। प्राक्रोशात्स्वरितेतोऽकर्तृगेऽपि फले शपथरूपेऽर्थे प्रास्मनेपदं वक्तव्यमित्यर्थः । कृष्णाय शपते । २६८६ समवप्रविभ्यः स्थः। (१-३-२२) संतिष्ठते । 'स्थाध्वोरिच' (सू २३८६) । समस्थित समस्थिषाताम् समस्थिषत । अवतिष्ठते । प्रतिष्ठते । वितिष्ठते । 'प्रा6 प्रति. सुट् स्यादिति । चतुष्पात्सु शकुनिषु च गम्येष्वित्यपि ज्ञेयम् । आलेखनं खननम् । सुडपि हर्षादिष्वेवेति वार्तिकम् । अपस्किरते । वृषो हृष्ट इति । हर्षाद् भूमि लिखन् धूल्यादि विक्षिपतीत्यर्थः। कुक्कुटो भक्षार्थीति । अपस्किरते इत्यनुषज्यते। श्वा आश्रयार्थीति । अपस्किरते इत्यनुषज्यते । अपकिरति कुसुममिति । वृषादिरिति शेषः। ह्रियमाणो वृषादिः पादैः कुसुममवकिरतीत्यर्थः । अत्र हर्षायभावानात्मनेपदम् । नापि सुट् , तदाह इह तङ्सुटौ नेति । ननु अपस्किरते वृषो हृष्ट इत्यायुदाहरणत्रये यदि हर्षजीविकाकुलायकरणान्येव विवक्षितानि, न त्वालेखनमपि, तदा तव स्यान तु सुड् इत्यत आह हर्षादिमात्रेत्यादि । आलेखनाभावेऽपीत्यर्थः । नेष्यते इति । किरतेईर्षजीविकेत्यात्मनेपदविधौ ससुटकानामेव भाष्ये उदाहरणादिति भावः । भाष्यस्थान्युदाहरणान्यालेखनविषयाण्येव भविष्यन्तीत्यखरसं सूचयति पाहुरिति । गजोऽपकिरतीति । खभावाख्यानमत्रेति भावः । 'आङि नुप्रच्छयोः' । इति वार्तिकम् । प्रानुते इति । सृगाल इति भाष्यम् । सृगाल उत्कण्ठापूर्वकं शब्दं करोतीत्यर्थ इति कैयटः । ननु 'शप आक्रोशे' इत्यस्य स्खरितेत्त्वादेव सिद्ध 'शप उपालम्भे' इत्यात्मनेपदविधिय॑र्थ इत्यत आह आक्रोशार्थादिति । 'शप आक्रोशे' इति खरितेतः कर्तृगामिन्येव फले श्रात्मनेपदं प्राप्तम् । अकर्तृगेऽपि फले शपथात्मकनिन्दाविशेषे विद्यमानात् तस्मात् शपधातोरात्मनेपदार्थमिदमित्यर्थः । कृष्णाय शपते इति । 'श्लाघ्नुस्थाशपाम्-' इति संप्रदानत्वाच्चतुर्थी । समवप्रविभ्यः स्थः। स्थ इति पञ्चमी । सम् अव प्र वि एभ्यः परस्मात् स्थाधातोरात्मनेपदमित्यर्थः। संतिष्ठते इति । समाप्तं भवनुहरतीति । सादृश्यमात्रमत्र विवक्षितं न तु प्रकारताच्छील्ये। गजोऽपकिरतीति । अत्र हर्षे सत्यपि आलेखनाभावात् सुटोऽप्राप्तिः । कृष्णाय शपत इति । 'श्लाघड्नुड्-' इति संप्रदानसंज्ञा । 'नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः