________________
५५२ ] सिद्धान्तकौमुदी। [आत्मनेपद. शक्लो भवितुमिच्छतीत्यर्थः । 'आशिषि नाथः' (वा ११.) आशिष्येवेति नियमार्थ वार्तिकमित्युक्तम्, सर्पिषो नाथते । सर्पि, स्यादित्याशास्त इत्यर्थः । कथं 'नाथसे किमु पतिं न भूभृताम्' इति । 'नाधसे' इति पाठ्यम् । 'हरतर्गतता. न्छील्ये' (वा १०८) । गतं प्रकारः। पैतृकमचा अनुहरन्वे । मातृकं गावः । पितुर्मातुश्च गतं प्रकारं सततं परिशीलयन्तीत्यर्थः । ताच्छील्ये किम्-मातुरनु. हरति । 'किरतेहर्षजीविकाकुलायकरणज्विति वाच्यम्' (वा ६०७)। हर्षादयो विषयाः । तत्र हर्षो विक्षेपस्य कारणम्, इतरे फले । २६८८ अपाच्चतु.
पाच्छकुनिष्वालेखने । (६-१-१४२) अपास्किरतेः सुट् स्यात् । 'सुपि जिज्ञासायाम्' इत्यपि वार्तिकम् । धनुषि शिक्षते इति । वैषयिके आधारे सप्तमी । शकिः सन्नन्तः। 'सनि मीमा-' इति इस। अभ्यासलोपश्च, तदाह धनुर्विषये इत्यादि । 'शिक्ष विद्योपादाने' इत्यस्य तु नेह ग्रहणम् , अनुदात्तेत्त्वादेव सिद्धेरिति भावः। कथमिति । भूभृतां पतिं किमु न नायसे-न याचसे इत्यर्थः । आशिषः अप्रतीतेः कथमात्मनेपदमित्यर्थः । नाधसे इति पाठ्यमिति । तवर्गचतुर्थान्तोऽयम् । 'आशिषि नाथः' इति नियमस्तु तवर्गद्वितीयान्तस्यैवेति भावः । 'हरतेर्गतताच्छील्ये' इति वार्तिकम् । श्रात्मनेपदमिति शेषः । गतं प्रकार इति । वृत्त. मित्यर्थः । ताच्छील्यं स्वभावानुसरणम्। गतिताच्छील्यमिति यावत् । गतेति पाठे भावे वः । पैतृकमवा इति । पैतृकं वृत्तम् अश्वाः स्वभावादनुसरन्तीत्यर्थः । मातृकं गाव इति । अनुहरन्ते इत्यनुषज्यते । मातुरनुहरतीति । अनुकरोतीत्यर्थः । अत्र सादृश्यमानं विवक्षितम् , न तु गतिताच्छील्यमिति भावः । किरते. रिति । वार्तिकम्। हर्षः प्रमोदः, जीविका जीवनोपायभक्षणम् , कुलायकरणम् श्राश्रयसंपत्तिः, एषु कृधातोरात्मनेपदमित्यर्थः । ननु कृधातोर्विक्षेपार्थकस्य कथमेषु वृत्तिरित्यत आह हर्षादयो विषया इति । धात्वर्थत्वाभावेऽपि पदान्तरसमभित्र्याहारगम्या इत्यर्थः । तत्रेति । तेषु हर्षादिष्वित्यर्थः। कारणमिति । तथा च हर्षमूलकत्वं विक्षेपस्य लभ्यते इति भावः। इतरे इति । जीविकाकुलायकरणे विक्षेपस्य साध्ये इति लभ्यते । हर्षादीनामेवंविधविषयत्वे सत्येवात्मनेपदमिति फलि. तम् , भाष्ये तथैवोदाहृतत्वादिति भावः। अपाश्चतुप्पात् । 'सुटकात्पूर्वः' इत्यधिकृतम् । 'किरती लवने' इत्यतः किरतावित्यनुवर्तते तदाह, अपात् किरतेः पादाने इत्यस्य नेह प्रहणमनुदात्तेत्त्वादेवात्मनेपदसिद्धः । किं तु शकेः सन्नन्तस्येति ध्वनयति धनुर्विषय इत्यादिना । नियमार्थमिति । नाथतेरनुदात्तेत्त्वं तु 'अनुदात्तेतश्च हलादेः' इति युचि नाथन इति रूपसिध्यर्थमिति भावः । मातुर