________________
प्रकरणम् ६०] बालमनोरमात्तत्त्वबोधिनीसहिता। [५५१ न्यत्रार्थे वर्तमानादारमनेपदं स्यात् । विद्यामादत्ते । मनास्य इति किम्-मुखं ज्याददाति । प्रास्थग्रहणमविवरितम्, विपादिकां ज्याददति । पादस्फोटो विपादिका । नदी कूलं ज्याददाति । 'पराङ्गकर्मकाच निषेधः' (वा १०३) व्याददते पिपीलिकाः पतङ्गस्य मुखम् । २६८७ क्रीडोऽनुसंपरिभ्यश्च । (१-३-२१) चादाङः । अनुक्रीडते । संक्रीडते । परिक्रीडते । आक्रीडते । अनोः कर्मप्रवचनीयाच, उपसर्गेण समा साहचर्यात् । माणवकमनुक्रीडति । तेन संहत्यर्थः । 'तृतीयार्थे' (सू ५४६ ) इत्यनोः कर्मप्रवचनीयस्वम् । 'समोऽकूजने' ( वा १०४ )। संक्रीडते । कूजने तु संक्रीडति चक्रम् । 'भागमेः क्षमायाम्' (वा १०५) । एयन्तस्येदं ग्रहणम् । भागमयस्व तावत् , मा स्वरिष्ठा इत्यर्थः । 'शिक्षेजिज्ञासायाम्' (वा १०६)। धनुषि शिक्षते । धनुर्विषये ज्ञाने जयते इति । निकृष्ट भवतीत्यर्थः । प्राङो दो। श्रास्यविहरणं मुखविकसनम् । दा इत्यस्य द इति पञ्चमी, तदाह ददातर्मुखविकसनादन्यत्रेति । विद्यामादत्ते इति । गृह्णातीत्यर्थः । दानो सित्त्वेऽप्यकर्त्रभिप्रायार्थमिदम् । अविवक्षितमिति । अविहरणे इत्येतावदेव विवक्षितमित्यर्थः । विपादिकां व्याददातीति । क्षारौषधादिना विदारयतीत्यर्थः । अत्र श्रास्यविहरणाभावेऽपि विकसनसत्त्वान्नात्मनेपदमिति भावः। नदी कलं व्याददातीति । भिनत्तीत्यर्थः । अत्रापि विकसनसत्त्वालस्यविहरणाभावेऽपि नात्मनेपदम् । पराङ्गकर्मकान्न निषेध इति । वार्तिकम् । पतङ्गस्येति । पक्षिणो मुखं भक्षणाय विकासयन्तीत्यर्थः । क्रीडोऽनु । चाद ङ इति । तथा च अनु सम् परि श्राङ् एभ्यः परस्मात् क्रीडधातोरात्मनेपदमित्यर्थः । 'अनोः कर्मप्रवचनीयान्न' इति वार्तिकम् । तदिदं न्यायसिद्धमित्याह उपसर्गरण समेति । 'समोऽकूजने' इति वार्तिकम्। समः परस्माद् अकूजने विद्यमानात् क्रीडेरात्मनपदमित्यर्थः । कूजने तु संक्रीडति चक्रमिति । कूजतीत्यर्थः । आगमः क्षमायामिति । आत्मनेपदमिति शेषः । वार्तिकमिदम् । ण्यन्तस्येदं प्रहणमिति । भाष्ये एयन्तस्यैवोदाहरणादिति भावः। आगमयस्व तावदिति । कंचित्कालं सहखेत्यर्थः । श्राङपसर्गवशाद् गमधातुः क्षमायां वतते । 'हन्त्यर्थाश्च' इति चुरादिगणसूत्रेण स्वार्थे णिच् । चुरादेराकृतिगणत्वाद्वा । मा त्वरिष्ठा इति । फलितार्थकथनम् । 'शिक्षे व्यवाये उपसंख्यानम्' इति वार्तिकमस्तीति दिक् । प्राङो दो । अकञभिप्रायार्थमिदम् । तेन 'व्यादत्ते विहगपतिर्मुखं खकीयम्' इति प्रयोग श्रास्यविहरणेऽपि सिद्धः। कियाफलस्य कर्तृगामित्वविवक्षणात् । शिक्षार्जिशासायामिति । शिक्ष विद्यो.