________________
५५० ]
सिद्धान्तकौमुदी। [आत्मनेपदजल्पन्ति । 'हरतेरप्रतिषेधः' (वा ८६६), संप्रहरन्ते राजानः । २६८२ इतरेतरान्योऽन्योपपदाच्च । (१-३-१६) 'परस्परोपपदाचेति वक्रव्यम्' (वा १००)। इतरेतरस्यान्योऽन्यस्य परस्परस्य वा व्यतिलुनन्ति । २६८३ नेर्विशः । (१-३-१७) निविशते । २६८४ परिव्यवेभ्यः क्रियः। (१-३-१८) अभिप्रायार्थमिदम् । परिक्रीणीते । विक्रीणीते । अवक्रीणीते । २६८५ विपराभ्यां जेः। (१-३-१६) विजयते । पराजयते । २६८६ आङो दोऽनास्यविहरणे । (१-३-२०) प्रापर्वाददातेर्मुखविकसनादइति । उपसर्गमनपेक्ष्य ये गतिहिंसयोर्वर्तन्ते तेषामेव प्रहणलाभाय अर्थग्रहणम् । हृधातुस्तु उपसर्गबलादिसायां वर्तते इति न तस्य प्रतिषेध इत्याह हरतेरप्रतिषेध इति । अर्थग्रहणलभ्यमिदं वार्तिकम् । इतरेतर । नात्मनेपदमिति शेषः । नेर्विशः। निपूर्वाद्विश आत्मनेपदं स्यादित्यर्थः । नेति निवृत्तम् । यद्यपि न्यविशतेत्यत्र न विशिर्नेः परः, अटा व्यवधानाद् अटो विकरणान्ताङ्गभक्तत्वेन निश. धात्ववयवत्वभावात् । तथापि 'अड्व्यवाये उपसंख्यानम् इति वार्तिकाद्भवतीति 'शदेः शितः' इत्यत्र भाष्ये स्पष्टम् । परिव्यवेभ्यः । परि वि अव एभ्यः परस्मात् क्रीब्धातोरात्मनेपदमित्यर्थः । विवादात्मनेपदसिद्धेः किमर्थमिदमित्यत
आह अकत्रंभिप्रायार्थमिति। विपराभ्यां जेः। वे परा आभ्यां परस्माद् जिधातोरात्मनेपदमित्यर्थः । विजयते इति । उत्कृष्टो भवतीत्यर्थः । परा'हरतेरप्रतिषेधः' इति वार्तिकमर्थग्रहणलभ्यमेवेत्याहुः । इतरेतरा । नन्वितरेतरादिशब्दैरेव कर्मव्यतिहारस्य द्योतितत्वात्तयोतकमात्मनेपदं न प्राप्नोतीति किमर्थो निषेधः। अत्राहुः-लौकिके व्यवहारे लाघवानादरादात्मनेपदं प्रसज्येतेति निषेधोऽयमारभ्यते। अतएव व्यतिलुनीत इत्यादौ कर्मव्यतिहारद्योतनाय व्यतीत्युप. सर्गावात्मनेपदं च समुच्चित्य प्रयुज्यत इति । नेर्विशः। नेः किम्, प्रविशति । अर्थवग्रहणलक्षणप्रतिपदोक्लपरिभाषाभ्यां नेरुपसर्गस्य ग्रहणम् । तेनेह न-'मधूनि विशन्ति भ्रभराः'। 'इत्युक्त्वा मैथिली भर्तुरके निविशती भयात्' इत्यत्र तु अशानि विशतीति पाठयम् । न च पदसंस्कारपक्षे त्व) निविशतीति पाठेऽप्यदोष इति वाच्यम्, त्वं करोति भवान् करोषीत्यादिप्रयोगस्यापि त्वदुक्करीत्या साधुत्वापत्तेः, 'वा लिप्सायाम्' इत्यादेवैयापत्तेश्च । स्यादेतत्-'नवाम्बुदश्यामतनुविक्षत' इत्यत्रात्मनेपदं न स्यात् , अटा व्यवधानात् । न च वाङ्गमव्यवधायकमिति वाच्यम्, अङ्गभवस्याटो विकरणविशिष्टस्यावयवत्वेऽपि धातोरनवयवत्वादिति चेत् । अत्राहुःलावस्थायामडागम इति भाष्यमते न कश्चिद्दोषः । मतान्तरे तु उपसर्गनियमे 'अड्