________________
प्रकरणम् ६० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५४६ व्यतिलुनीते, भन्यस्य योग्यं लवनमन्यः करोतीत्यर्थः । 'भसोरहोपः' (सू २४६६)। व्यतिस्ते ब्यतिषाते ब्यतिषते । 'तासस्स्योः -' (सू २१६१) इति सलोपः । व्यतिसे । 'घि च' (सू २२४६ ) व्यतिध्वे । 'एति' (सू २२५०) व्यतिहे । व्यत्यसै । व्यत्यास्त । व्यतिषीत । व्यतिराते ब्यतिराते व्यतिराते। व्यतिभाते न्यतिभाते ब्यतिभाते । व्यतिबभे । २६८१ न गतिहिंसार्थेभ्यः। (१-३-१५) व्यतिगच्छन्ति । व्यतिनन्ति । 'प्रतिषेधे हसादीनामुपसंख्यानम्' (वा ८१८)। हसादयो हसप्रकाराः शम्बक्रियाः। व्यतिहसन्ति । व्यतिक्रियापरः, व्यतिहारशब्दो विनिमयपर इत्युक्तं भवति । अन्यस्येति । शूद्रादि. योग्यं सस्यादिलवनं ब्राह्मणः करोतीत्यर्थः । परस्परकरणमपि कर्मव्यतिहार इति कैयटः । संप्रहरन्ते राजानः । कर्तृप्रहणं भावकर्मणोरित्यत्यानुवृत्तिनिवृत्त्यर्थम् । अन्यथा व्यतिलुनीत इत्यत्र न स्यात् । वस्तुतस्तु पृथक् सूत्रारम्भादेव सिद्ध कर्तृप्रहणमुत्तरार्थमिति भाष्ये स्पष्टम् । व्यति अस् ते इति स्थिते आह नसोरिति । व्यतिस्ते इति । तपसे अयोग्यः शूद्रस्तपस्वी भवतीत्यर्थः । इह 'उपसर्गप्रादुर्व्याम्-' इति न षः, यच्परकत्वाभावादिति भावः । व्यतिपाते इति । इह अच्परकत्वाद् 'उपसर्गप्रादुभ्याम्-' इति षः। व्यति स् से इति स्थिते प्राह तासस्त्योरिति । 'उपसर्गप्रादुाम्-' इति नेह षत्वम् , अस्त्यवयवस्य सकारस्य लुप्तत्वात् । व्यतिषाथे। व्यति स् ध्वे इति स्थिते आह घि चेति । सलोप इति शेषः। व्यतिस् ए इति स्थिते आह ह एतीति । सकारस्य हकार इति भावः । व्यत्यसै इति । लोडुतमपुरुषैकवचनम् । व्यत्यास्तेति । लङि रूपम् । व्यतिषीतेति । लिङि रूपम् । व्यतिराते इति । लटि प्रथमपुरुषकद्विबहुवचनेषु समानमेव रूपम् । व्यतिभाते इति । भाधातो रूपम् । व्यतिबभे इति । लिटि रूपम् । न गतिहिंसार्थेभ्यः। कर्मव्यतिहारे आत्मनेपदं नेत्यर्थः । हसादिगणस्य अदर्शनादाह हसप्रकारा कर्तरि कर्म । अन्यस्येति । शूदस्य योग्यं सस्यादिलवनं ब्राह्मणः करोतीत्यर्थः । परस्परकरणमपि कर्मव्यतिहारः । संप्रहरन्ते राजानः । पृथक्सूत्रारम्भादेव सिद्ध कर्तृप्रहणमुत्तरार्थम् । व्यतिस्ते इति । यपरत्वाभावान्न षः। व्यतिस इति । 'उपसर्गप्रादुाम्-' इति नेह षत्वम् । सकारस्यास्त्यवयवत्वाभावात् । 'आदेशप्रत्यययोः' इति षत्वं तु 'सात्पदायोः' इति निषिद्धम्। एकदेशविकृतन्यायेन प्रत्ययमात्रस्य पदत्वात् । न गतिहिंसार्थेभ्यः । अर्थशब्दः प्रत्येकमभिसंबध्यते। कर्मव्यतिहारे यदात्मनेपदं तस्य निषेधः। अर्थग्रहणसामर्थ्याद् ये शब्दान्तरमनपेक्ष्य गतिहिंसयोर्वर्तन्ते त एवेह गृह्यन्ते। हरतिस्तूपसर्गवशाद् हिंसायां प्रवर्तते इति