________________
५४८ ]
रिणच् । बोभूययिषयतीत्यादि ।
सिद्धान्तकौमुदी ।
[ आत्मनेपद
इति तिङन्ते प्रत्ययमालाप्रकरणम् ।
अथ तिङन्ते श्रात्मनेपदप्रकरणम् ॥ ६० ॥
'अनुदात्तङित श्रात्मनेपदम् ' ( सू २१५७ ) । प्रास्ते । शेते । २६७९ भावकर्मणोः । (१-३-१३ ) बभूवे । अनुबभूवे । २६८० कर्तरि कर्मव्यतिहारे । ( १ - ३-१४ ) कियाविनिमये द्योत्ये कर्तयत्मनेपदं स्यात् । यिषतीत्यत्र प्रक्रियां दर्शयति यङिति । भूधातोरिति शेषः । द्वित्वे बोभूयेति स्थितम् । सन्निति । इटि तो लोपे षत्वे बोभूयिषेति स्थितम् । रायन्तात् सन्निति । बोभूयिषेत्यस्माद् हेतुमणिचि श्रतो लोपे बोभूयिषि इति स्थितम् । तस्मात् सनि इटि णिचो गुणायादेशयोः षत्वे बोभूयिषयिषेति स्थितम् । ततो लटस्तिपि शपि पररूपे बोभूयिषयिषतीति रूपम् । अनभ्यासस्येत्युक्तेर्न पुनर्द्वित्वम् । अथ बोभूययिषयतीत्यत्र प्रक्रियां दर्शयति यङिति । मूधातोरिति शेषः । द्वित्वे बोभूयेति स्थितम् । गिजिति । बोभूयेत्यस्माद्धेतुमरणौ तो लोपे बोभूयि इति स्थितम् । सन्नन्तारिणजिति । बोभूयि इत्यस्मात्सनि दृटि णिचो गुणायादेशयोः षत्वे बोभूययिषेति स्थितम् । तस्माद्धेतुमरिणचि श्रतो लोपे बोभूययिषि इत्यस्माल्लटस्तिपि शपि गुणायादेशयोः बोभूययिषयतीति रूपं सिद्धम् ।
इति श्रीवासुदेवदीक्षित विदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमाख्यायां प्रत्ययमाला समाप्ता ।
अथ श्रात्मनेपदप्रक्रिया निरूप्यते । श्रात्मनेपदपरस्मैपदव्यवस्थापकानि सूत्राणि प्रथमस्य तृतीयपादे पठितानि । तानि क्रमेण व्याख्य स्यन् व्याख्यातमपि सूत्रं पुनः स्मारयति अनुदातङित इति । श्रात्मनेपदमित्येतत् 'शेषात्कर्तरि परस्मैपदम्' इत्यतः प्रागनुवर्तते । भावकर्मणोः । भावो भावना कियेति पर्यायाः । कर्मशब्दः कर्मकारके वर्तते । भावे कर्मणि च यो लकारस्तस्यात्मनेपदमित्यर्थः । भावे उदाहरति बभूवे इति । वृत्ता भवनकियेत्यर्थः । कर्मण्युदाहरति अनुबभूवे इति । आनन्द इति शेषः । श्रनन्दकर्मिका वृत्ता अनुभवक्रियेत्यर्थः । कर्तरि कर्म । कर्मव्यतिहारशब्दं विवृण्वन्नाह क्रियाविनिमये द्योत्ये इति । एवं च कर्मशब्दः 'लिटि धातो:-' इति सूत्रे अनभ्यासस्येत्येतदवश्यं कर्तव्यम् । एव च 'लक्ष्ये लक्षणं सकृदेव प्रवर्तते इति श्रनभ्यासग्रहणं तत्र मास्त्विति भाष्यस्थं प्रत्याख्यानं प्रौढि - वादमात्रमिति भावः । इति तत्त्वबोधिन्यां प्रत्ययमालाप्रकरणम्
1
भावकर्मणोः । भावे कर्मणि च यो लकारस्तस्यात्मनेपदमित्यर्थः ।