________________
प्रकरणम् ५६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५४७ इन्द्रीयतेः सन् , दीशब्दयिशब्दयोरन्यतरस्य द्वित्वम्, इन्दिद्रीयिषति, इन्द्री. यियिषति । चिचन्द्रीयिषति, चन्दिद्रीयिषति, चन्द्रीयिषति । प्रियमाख्यातुमाचचाणं प्रेरयितुं वेच्छति पिप्रापयिषति, प्रापिपयिषति , प्रापयियिषति । उरुं विवारयिषति, वारिरयिषति, वारयियिषति । बाढं सिसाधयिषतीत्यादिरूपत्रयम् । षवं तु नास्ति । 'यङ्सन्ण्यन्तास्सन्। बोभूयिषयिषति । यणिसमन्तावेत्यर्थः । इन्द्रीयतेः सन्निति । इन्द्रशब्दात् क्यजन्तात्सान्नित्यर्थः । द्रीशब्दयिशब्दयोरिति । नकारस्य आदिभूतादचः परत्वान्न द्वित्वम् । दकारस्य तु श्रादिभूतादचः परत्वाभावान्न द्वित्वनिषेध इति भावः । चिचन्द्रीयिषतीति । चन्द्रीयतेः सनि प्रथमर काचो द्वित्वम् । चन्दिद्रीयिषतीति । द्वितीयस्यैकाचो द्वित्वम् । 'न न्द्रा:-' इाते नकारस्य न द्वित्वमिति माधवः । श्रादिभूतादचः परेषां नदराणां न द्वित्वमित्येव भाष्यसंमतम् । अत्र नकारस्यापि द्वित्वमित्येव युक्तम् । चन्द्रीयियिषतीति । तृतीयस्यैकाचो द्वित्वम् । प्रियमिति । प्रियमाख्यातुमिच्छतीत्यर्थे 'तत्करोति तदाचष्टे' इति रायन्तात्सनि इटि णाविष्ठवत्त्वात्प्रियशब्दस्य 'प्रियस्थिर-' इति प्रादेशे वृद्धौ पुकि णिचो गुणायादेशयोः षत्वे प्रापयिषेत्येव सबन्तम् । प्रियमाचक्षारां प्रेरवितुमिच्छतीत्यर्थे तु प्रापि इति ण्यन्तादुक्ता तुमराणौ तदन्तात् सनि इटि द्वितीयं णिचमाश्रित्य प्रथमणिचो लोपे द्वितीयणिचो गुणायादेशयोः प्रापयिषेत्येव सन्नन्तम् । तत्र यथेष्टं नामधातुवित्याद्यानां त्रयाणामेकाचामेकैकस्य द्वित्वे पिप्रापयिषतीत्यादिरूपत्रयमित्यर्थः । उरुमिति । उरुमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे उरुशब्दादाचष्टे इत्यय णिचि 'प्रियास्थिर-' इति वरादेशे उपधावृद्धौ वारि इति गयन्तात्सनि इटि णिचो गुणायादेशयोः षत्वे वारयिषेति सन्नन्तम् । माधवमते वृद्धयङ्गीकाराद् वारि इत्यस्माद् हेतुमराण्यन्तात् सनि इटि प्रथमणेर्लोपे षत्वे वारयिषेत्येव रूपम् । तत्र यथेष्टं नामधातुष्वित्येकैकस्य एकाचो द्वित्वे विवारयिषतीत्यादिरूपत्रयमित्यर्थः । बाढं सिसाधयिषतीति । बाढमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे णिजादि पूर्ववत् । अन्तिकबाढयोरिति साधादेशः। तत्र सकारस्यादेशत्वाभावान्न षत्वम् , तदाह षत्वं तु नास्तीति । बोभूयिषवोक्ताः । द्रीशब्दयिशब्दयोरिति । नकारस्य त्वचः परत्वाद् द्वित्वं नेति भावः । पिप्रापयिषतीति । णाविष्ठवद्भावेन प्रियशब्दस्य 'प्रियस्थिर-' इत्यादिना प्रादेशस्ततो द्वित्वादि । सिसाधयिषतीति । इष्ठवद्भावादिह 'अन्तिकबाढयोः-' इति साधादेशः । षत्वं तु नास्तीति । आदेशावयवत्वादिति भावः । बोभूयिषयिषतीति । इह यनिमित्तद्वित्वे कृतेऽपि सन्निमित्तद्वित्ववारणाय