________________
५४६ ]
सिद्धान्तकौमुदी।
[प्रत्ययमाला
अथ तिङन्ते प्रत्ययमालाप्रकरणम् ॥ ५ ॥ ___ कण्डूयतेः सन् । 'सन्यकोः' (सू २३६५) इति प्रथमस्यैकाचो द्विस्वे प्राले 'कण्ड्वादेस्तृतीयस्येति वाच्यम्' (वा ३४०४)। कण्डूयियिषति । क्यजन्तास्सन् । 'यथेष्टं नामधातुः (वा ३४०६) । प्राधानां त्रयाणामन्यतमस्य द्वित्वमित्यर्थः । प्रजादेस्स्वायेतरस्य । पुपुत्रीयिषति, पुतिनीयिषति, पुत्रीयियिषति अशिश्वीयिषति, प्रवीयियिषति । नदराणां संयुक्तानामचः परस्यैव द्विस्वनिषेधः । अरर पाराकर्मणीति । श्रारा प्रतोदः, तत्करणकं कर्म पाराकर्म । भिषज् चिकित्सायाम् । जान्तोऽयम् । भिषज्यति । लेखा स्खलने चेति । लेखायति । लेख्यतीति । अदन्तायकि अतो लोपः। प्राकृतिगणोऽयमिति । कण्ड्वा. दिरित्यर्थः । तेन दुवस् संदीपने इत्यादिसंग्रहः । 'समिधानि दुवस्यते।। इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां .
बालमनोरमाख्यायां कराड्वादयः समाप्ताः। अथ प्रत्ययमालां वक्ष्यन्नाह कण्डूयतेः सन्निति । 'धातोः कर्मणः-' इत्यनेनेति भावः। प्रथमस्यैकाच इति । 'अजादेद्वितीयस्य' इति द्वितीयकाचो द्वित्वे प्राप्ते इत्यपि ज्ञेयम् । कण्ड्वादेस्तृतीयस्येति । एकाचो द्वित्वमिति शेषः । कण्ड्वादरित्यनन्तरं यगन्तस्येति शेषः, केवलकण्ड्वादिषु तृतीयेकाचोऽभावात् । कण्डूयियिषतीति । कण्डूयेति यगन्तात् सनि इटि अतो लोपः । इस् इति तृतीयस्यैकाचो द्वित्वम् । असु उपतापे, कण्ड्वादिः । असूयियिषति । अजादेस्तृतीयस्य एकाचो द्वित्वम् । क्यजन्तात्सन्निति । उदाह्रियत इति शेषः। यथेष्टं नामधातुषु । इत्यपि वार्तिकम् । नाम प्रातिपदिकं तद्धटितधातुष्वित्यर्थः । अजा. देस्त्वाचेतरस्येति । अजादेरित्यनुवृत्त्या श्रादिभूतादचः परेषामेकाचा यथेष्टमित्यर्थलाभादिति भावः । नदराणामिति । तेषां मध्ये आदिभूतादचः परस्यैइत्यर्थः । 'प्रभूतं प्रचुरं प्राज्यमददँ बहुलं बहु' इत्यमरः। संभूयस्यति । असंभृयसीत् । नेह संशब्दस्य पृथक्कृतियः, यत्र प्रातिपदिकाद्धातुसंज्ञाप्रयोजकप्रत्ययस्य विधानं तत्रैव पृथक्कृतिरित्याहुः । प्राकृतिगण इति । तेन दुवस् सन्दीपन इत्यादि सिद्धम् । प्रयुज्यते च 'समिधामि दुवस्यते' इत्यादि ।
इति तत्त्वबोधिन्यां करडादिप्रक्रिया प्रकरणम् । प्रथमस्येति । अजादेस्तु द्वितीयस्य द्वित्वे प्राप्ते इत्यपि ज्ञेयम् । प्राचा तु 'यथेष्टं नामधातुषु' इति प्राप्ते 'कण्डादेस्तृतीयस्य' इत्युक्तमित्यवतारितम् , तदयुक्तम् , नामधातुत्वस्य निराकृतत्वात् । अत एव मूले नामधातून् समाप्य कण्ड्डादयः पृथगे