________________
प्रकरणम् ५८ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ५४५
कण्ड्वादयो धातवः प्रातिपदिकानि च । कण्डूञ् गात्रविघर्षणे, कण्डूयति, कण्डूयते । मन्तु अपराधे । रोष इत्येके । मन्तूयति । चन्द्रस्तु जितमाह, मन्तूयते । वल्गु पूजामाधुर्ययोः, वल्गूयति । असु उपतापे, असु असूञ् इत्येके, अस्यति। श्रसूयति, असूयते । लेट् लोट् धौर्ये पूर्वभावे स्वमे च, दीप्तावि त्येके, लेव्यति । लेटिता । लोव्यति । लोटिता । लेला दीप्तौ । इरस्, इरज्, इरश् ईर्ष्यायाम्, इरस्यति । इरज्यति । 'हलि च' ( सू ३५४ ) इति दीर्घः । ईति, ईर्यते । उषस् प्रभातीभावे । वेद धौलें, स्वमे च । मेधा आशुग्रहणे, मेधायति । कुषुभ क्षेपे, कुषुभ्यति । मगध परिवेष्टने, नीचदास्ये इत्यन्ये । तन्तस् पम्पस् दुःखे । सुख दुःख तत्क्रियायाम्, सुख्यति । दुःख्यति । सुखं दुःखं चानुभवतीत्यर्थः । सपर पूजायाम् । अरर आराकर्मणि । भिषज् चिकिस्वायाम् । भिष्णज् उपसेवायाम् । इषुध शरधारणे । चरण वरण गतौ । चुरण चौर्ये । तुरण स्वरायाम् । भुरण धारणपोषणयोः । गद्गद वाक्स्खलने । एला केला खेला विलासे । इलेस्यन्ये । लेखा स्खलने च । अदन्तोऽयमित्यन्ये । लेख्यति । लिट अल्पकुत्सनयोः, लिख्यति । लाट जीवने । हृणीड् रोषणे लज्जायां च । महीङ् पूजायाम्, महीयते, पूजां लभत इत्यर्थः । रेखा श्लाघासादनयोः । द्रवस परितापपरिचरणयोः । तिरस् अन्तर्धौ । अगद नीरोगवे । उरस् बलार्थ:, उरस्यति, बलवान्भवतीत्यर्थः । तरण गतौ । पयस् प्रसृतौ । सम्भूयस् प्रभूतभावे । अम्बर संवर संभरणे । श्राकृतिगणोऽयम् । इति तिङन्ते कयवादिप्रकरणम् ।
एतच्च भाष्ये स्पष्टम् । तेन कण्डूरित्याद्य विगृहीतरूपसिद्धिः । लेटितेति । 'यस्य हलः ' इति यलोपः । मेधा आशुग्रहण इति । आशुग्रहणं त्वरया बोधः । सुप्रहणे इति पाठान्तरम् । सुख्यतीति । यकि तो लोपः । प्रातिपदिकेभ्यो यकि तु आर्धधातुकत्वाभावादल्लोपो न स्यादिति बोध्यम् । चौरादिकयोस्तु सुखयति दुःखयतीत्युक्तम् ।
1
1
वृत्तौ मानाभावात् । अन्यथा णिजन्तेष्विव प्रकृतिप्रत्ययाभ्यां व्यापारद्वयापत्तेरिति दिक् । पूर्वभावे इति । पूर्वत्वमित्यर्थः । लेटितेति । 'यस्य हलः' इति यलोपः । सुख्यतीति । चुरादौ तु सुख दुःख तत्क्रियायां सुखयतीत्यायुदाहृतम् । सपर । यगन्ताद् 'अप्रत्ययात् ' 'गुरोश्च हलः' इत्यनेन वा अप्रत्यये टापू, पर्या अरर । आरा प्रतोदः, तत्करणकं कर्म श्राकर्म । श्रदन्तोऽयमिति । लेख्यति । श्रादन्तपक्षे तु लेखायति । महीङ् । 'प्रेत्य खर्गे महीयते' इति रामायणम् । प्रसृताविति । प्रसृतिः परिमाणविशेषः । प्रभूतभावे इति । बाहुल्य