________________
५४४ ]
सिद्धान्तकौमुदी। [ कण्ड्वादिवृन्दारकं वृन्दयति ।
इति तिङन्ते नामधातुप्रकरणम् । अथ तिङन्ते कण्ड्वादिप्रकरणम् ॥ ५८ ॥
२६७८ कण्ड्वादिभ्यो यक् । (३-१-२७) एभ्यो धातुभ्यो नित्यं यस्यात्स्वार्थे । धातुम्यः किम्-प्रातिपदिकम्यो मा भूत् । द्विधा हि वृन्दयतीति । वृन्दारकस्य वृन्दादेशः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायो सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमाख्यायां नामधातुप्रक्रिया समाप्ता। अथ कण्ड्वादिप्रक्रिया निरूप्यन्ते । कण्ड्वादिभ्यो यक् । धातुभ्य इति । 'धातोरेकाचः-' इत्यतस्तदनुवृत्तेरिति भावः । नित्यामिति । वाग्रहणं तु निवृत्तमिति भावः । अन्यथा कण्डवतीत्याद्यपि स्यादिति भावः । द्विधा हीति । द्वापत् । वृन्दयतीति । श्रववृन्दत् । इति तत्त्वबोधिन्यां नामधातुप्रक्रियाप्रकरणम् ।
कण्डादिभ्यो यक् । 'धातोरेकाच-' इत्यस्माद्धातोरिति वर्तते । वेति निवृत्तम् । अन्यथा कण्डयतीति स्यात्तदाह धातोनित्यमिति । केचित्तु 'नित्यं कौटिल्ये गतौ' इत्यतो नित्यमित्यनुवर्तत इत्याहुः। तच्चिन्त्यम् । तत्र हि नित्यग्रहणमेवकारार्थे वर्तते, तककौण्डिन्यन्यायस्यानित्यता ज्ञापयितुमिति प्राग्व्याख्यातत्वात् । किं च नित्यं कौटिल्ये गतौ' इत्यत्रापि वेत्यनुवर्तते । अन्यथा गत्यर्थेभ्यो नित्यं यङ् स्यादिति । स्वार्थ इति । कण्डादिभ्यो यक् स्यात् कृवर्थे इति प्राचोक्तमयुक्तमिति भावः । द्विधा हीति । यकः कित्वेन धातव इति ज्ञायते । कराहूञ् इति दी - पाठेन प्रातिपदिकान्यपीति । यदि तु धातव एव स्युस्तर्हि ह्रस्वान्ते पठितेऽपि यकि परे 'अकृत्सार्व-' इति दीघेण कण्डूयतीत्यादिसिद्धेः किं तेन दीर्घपाठेन । द्वैविध्ये तु धातुभ्यो यकि गुणनिषेधेन कित्वं सार्थकम् । कराडूरित्यादियग्रहितरूपसिध्या दीर्घ. पाठोऽपि सार्थकः । अतएवोक्तं भाष्ये-'धातुप्रकरणाद्धातुः कस्य चासअनादपि । आह चायमिमं दीर्घ मन्ये धातुर्विभाषितः' इति । एतेन कराएं करोति कण्डूयति इति प्राचोक्तविग्रहोऽपि परास्तः । कण्डादयः प्रातिपदिकान्येवेत्यनभ्युपगमात् । न च द्वैविध्याभ्युपगमेऽपि प्रातिपदिकादेव यक् स्यादिति वाच्यम्, तथाहि सति धातोलेडादौ करडवतीत्याद्यनिष्टप्रसझात् । सुखदुःखादिप्रातिपदिकेभ्यो यकि अल्लोपासंभवेन सुख्यतीत्याद्यसिद्धिप्रसङ्गाच्च । यत्तु कैश्चित् 'शब्दवैरकलह-' इति सूत्रात्करणे इत्यनुवर्तनात् कृमर्थे यगिति प्राचोकव्याख्यायां न किंचिद्बाधकमित्युक्तम् , तच्चिन्त्यम् । अनु