________________
प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५४३ 'युवाल्पयो- (सू २०१६) इति वा कन् । अन्तिकं नेदयति । बाढं साधयति । प्रशस्यं प्रशस्ययति, इह श्रज्यौ न, उपसर्गस्य पृथक्कृतेः । वृद्धं ज्यापयति । प्रियं प्रापयति । स्थिरं स्थापयति । स्फिरं स्फापयति । उहं वरयति, वारयति । बहुलं बंहयति । गुरुं गरयति । वृद्धं वर्षयति । तृपं पयति । दीर्घ द्राधयति । दूरादित्येव रूपम् । तस्मारणौ टिलोपे दूरि इति ण्यन्तात् शतृप्रत्यये शपि इकारस्य गुणे अयादेशे दूरयच्छब्दस्य दूरयतीति सप्तम्यन्तमिति भावः, तदाह दुरातं कुर्वतीत्यर्थ इति । कुर्वतीति सप्तम्यन्तम् । यवयतीति । युक्न्शब्दाद् णौ स्थूलदूरेति वनो यणादेलोपः । पूर्वस्य उकारस्य गुणे अवादेशः । यवि इत्यस्मालडादि। कनयतीति । युवन्शब्दस्य कनादेशपक्षे रूपम् , तदाह युवाल्पयोरिति । नेदयतीति । अन्तिकशब्दस्य णौ नदादेशः । 'अन्तिकबाढयोर्नेदसाधौ' इत्युक्तेः । साधय. तीति । बाढशब्दस्य णौ साधादेशः । इहेति । प्रशस्ययतीत्यत्र 'प्रशस्यस्य श्रः' 'ज्य च' इति श्रज्यौ नेत्यर्थः । कुत इत्यत आह उपसर्गस्येति। तत्पृथकरणे सति विशिष्टस्य स्थानिनोऽभावान्नादेशाविति भावः । वृद्धं ज्यापयतीति। वृद्धस्य चेति वृद्धशब्दस्य ज्यादेशे वृद्धौ पुगिति भावः 'भियस्थिर-' इति सूत्रक्रमेणोदाहरतिप्रियंप्रापयतीति । प्रियशब्दस्य प्रादेशे वृद्धिः पुक् । स्थापयतीति । स्थिरशब्दस्य स्थादेशे वृद्धिपुकौ । वरयति, वारयतीति । उरुशब्दस्य वर् । संज्ञापूर्वकविधेरनित्यत्वादुपधावृद्धिविकल्प इति माधवः । बहयतीति । बहुलस्य बहादेशः । गरयतीति । गुरोः गर् । वृद्धं वर्षयतीति । वृद्धस्य वर्षादेशो 'वृद्धस्य च' इति ज्यादेशेन विकल्प्यते । त्रपयतीति । तृप्रस्य त्रप् आदेशः । अदुपधः, संज्ञापूर्वकत्वान्न वृद्धिः । गरयतीत्यादिवत् । त्रापयतीति क्वचित्पाठः। द्राघयतीति । दीर्घस्य द्राघादेशः। इहापि पूर्ववध्यभावः। लुङि अदूदवत् । अयूयवत् । अचीकनत् । नेदयतीति । 'अन्तिकबाढयोर्नेदसाधौ' टिलोपः । लुङि अनिनेदत् । अससाधत् । प्रशस्यम् प्राशशस्यत् । पृथक्कृतेरिति । तेन विशिष्टस्य स्थानिनोऽभावाद् नादेशाविमौ भवत इत्यर्थः । ज्यापयतीति । 'वृद्धस्य च' इति ज्यादेशः। स च 'प्रियस्थिर-' इति वर्षादेशेन सह विकल्प्यत इत्याह वर्षयतीति । लुठि अजिज्यपत् । अववर्षत् । प्रियम् अपिप्रपत् । स्थिरम् अतिस्थपत् । सस्यादेशावयवत्वात्षत्वं न । स्फिरम् अपिस्फपत् । उरुमिति । वरादेशे कृते संज्ञापूर्वकविधेरनित्यत्वाद्वाहुलकाद्वा माधवेन विकल्पेन उपधावृद्धिरुदाहृतेति खयमपि तथैवाह वरयति । वारयतीति । अवीवरत् । बंहयतीति । अग्लोपित्वाद् अबबंहत् । गरयतीति । अजीगरत् । त्रापयतीति । अतित्रपत् । द्राघयतीति । अद