________________
५४२]
सिद्धान्तकौमुदी। [नामधातुप्रवृत्तस्वात् । स्थूलं स्थवपति । दूरं दवयति । कथं तर्हि 'दूरयत्यवनते विवस्वति' इति, दूरमतति श्रयते वा दूरात् , दूरातं कुर्वतीत्यर्थः । युवानं यवयति कनयति । उत्तरखण्डे वृद्धयायादेशयोः कृतयोरुपधाह्रस्व इति माधवः । स्तुपो लुकि अकारस्यापि लोपसत्त्वेन अग्लोपित्वान्नोपधाह्रस्व इत्यन्ये । पयस्विनीमिते । णिचि इष्ठवत्त्वाद्विन्मतोरिति मतुपो लुगिति भावः । पयसयतीत्यत्र इष्टवत्त्वात् टिलोपमाशङ्कयाह इह टिलोपो नेति । कुत इत्यत आह तदपवादस्यति । न च टिलोपं बाधित्वा मतुपो लुकि कृते पयसष्टेर्लोपः कुतो न स्यादिति वाच्यम् , स:यपि संभवे बाधनमिति न्यायेन पयसष्टिलोपस्यापि मतुपो लुका बाधात् । स्थवयतीति । स्थूलशब्दाद णिचि इष्टवत्त्वात् स्थूलदूरेति स्थूलशब्दस्य यणादेर्लोपे ऊकार य गुणे अवादेशे स्थवि इत्यस्माल्लडादीति भावः । गुणे ओकारस्य 'अचो णिति' इति वृद्वस्तु न शङ्कया, अङ्गकार्ये कृते पुनरङ्गकार्यस्याप्रवृत्तेः । दवयतीति । पूर्ववद्यणादिलोपो गुणश्च । कथं तीति । स्थूलदूर-' इति यणादिलोपस्य टिलोपापवादत्वादिति भावः। दरमततीति। 'अत सातत्यगमने' इति धातोः 'अन्येभ्योऽपि दृश्यते' इति विवपि दूरादिति रूपम् । अय गतावित्यस्मात् क्विपि 'लोपो व्योः-' इति यलोपे ‘ह्रस्वात्य पिति-' इति तुकि स्यात्तर्हि तन्न संगच्छेत । न चात्र सापेक्षत्वं नेति विवदितव्यम, यां दिशं श्रीमतीमकरोदिति स्वयमेव व्याख्यातत्वत् । नापि सविशेषणानां वृत्त्यभावेऽपि विशेष्ययोगे स्यादेव वृत्तिरिति नात्रानुपपत्तिरिति श्रीमतीमित्यर्थ प्रति दिशो विशेष्यत्वादिति वाच्यम् , विशेष्ये हि बहिर्भूते विशेषणानां वृत्ति नीकि गते । न हि कश्चित् श्रीमतो राज्ञ इदमित्यर्थे राज्ञः श्रेमतमिति वृत्तिमभ्युपैति । किं च माघश्लोके अशि. श्रियदित्येव पाठो बहुषु पुस्तकेषु दृश्यते, न त्वशिश्रयदित्यलं सुद्धे ग्रन्थसमर्थनाभि. निवेशेनेत्याहुः । पयसयतीति । इह विन्मतो कि अग्लोपात्लन्वदित्वादिकं च न । अनग्लोपेऽपि सन्वद्भावाभावात् । ‘णौ चङ्-' इति सूत्रे अत्यरराजदिति भाष्यमिह प्रमाणम् । लुङि अपपयसत् । एवं स्रग्विणमाख्यत् असत्र नदित्यत्रापि सन्वदित्वं न । गोमन्तं गवयति । लुङि अजुगवत् । इहाग्लोपाद् दीर्घ लघोः' इति दी? न । गां सज पय इति विग्रहे तु अजूगवत् । असिस्रजत् । पययति । अपपयत् । टेर्लोपस्य बहिरङ्गत्वेन असिद्धत्वादिह वृद्धिर्न । अग्लोपित्वात् सन्वद्भावदीर्थो न । तदपवादस्येति । येन नाप्राप्तिन्यायेन टिलोपापवादो लुक । स्थवयतीति । 'स्थूलदूर-' इति यणादिलोपो गुणश्च । न च गुणस्य 'अचोऽणिति' इति वृद्धिः स्यादिति वाच्यम् , अङ्गकार्ये कृते पुनरङ्गकार्यस्याप्रवृत्तेः । 'प्रातिपदिकाद्धा. त्वर्थे-' इति बहुलग्रहणाद्वा । लुङि अतुस्थवत् । दवयति । यवयतीत्यादि ।