________________
प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५४१ प्रग्विणं सूजयति, संज्ञापूर्वकत्वास वृद्धिः। श्रीमती श्रीमन्तं वा श्राययति । पशिश्रयत् । पयस्विनी पयसयति, इह टिलोपो न, तदपवादस्य लकः बाधकः । असस्वदिति । द्वित्वे कार्ये णावजादेशस्य निषेधाद् टिलोपं बाधित्वा स्वर्शब्दस्य द्वित्वम् , अरित्यस्य लोपे अकारस्यापि लोपसत्त्वेन अजादेशत्वादिति भावः । असिस्वदिति । अर्लोपस्य अजादेशत्वं नेति मते द्वित्वे कार्य णौ टिलोपस्य निषेधाभावात् टिलोपे कृते णिचा सह स्विशब्दस्य द्वित्वमिति भावः । बहूनिति । बहुशब्दारिणचि णाविष्वदित्यतिदेशाद् 'बहोर्लोपो भू च बहोः' इति बहोर्भूभावः । 'इष्ठस्य यिट च' इति यिडागमस्तु न, णाविष्ठवदिति सप्तम्या इष्ठनि परे दृष्टस्यैव कार्यस्यातिदेशादिति भावः । बहयतीति । यिडभावे तत्संनियोगशिष्टस्य भूभावस्याप्यभावादिति भावः । स्रजयतीति । इष्ठवत्वाद् 'विन्मतो:-' इति लुक् । न चाजादी गुणवचनादेवेति इष्ठन्प्रत्ययः स्रग्विन्शब्दाद् दुर्लभ इति इष्ठवत्त्वमत्र कथमिति शङ्कथम् , 'विन्मतो:-' इति लुग्विधानेन स्रग्विन्शब्दादिष्ठवत्त्वसिद्धेरिति भावः। उपधावृद्धिमाशङ्कथाह संज्ञापूर्वकत्वान्न वृद्धिरिति । णाविष्ठवदित्यने. नातिदेशेन विनो लुकः सत्त्वादावृत्तपरिभाषया न वृद्धिरिति कैयटः । श्रीमतीमिति। श्रीमतीशब्दारिणचि णाविष्ठवदित्यतिदेशेन 'भस्याटे-' इति पुंवत्त्वे 'विन्मतो:-' इति मतो कि रेफादिकारस्य वृद्धथायादेशयोः श्रायि इत्यस्माद् लडादीति भावः । अशिश्रयदिति । णावच आदेशो नेति वृद्धयायादेशयोः प्रागेव श्रीशब्दस्य द्वित्वे भूभावस्याप्यभाव इति भावः । नन्वेवमन्यमतत्वेन किमर्थमिदमुपन्यस्तमिति चेत् । अत्राहुः-प्राधान्यादिष्ठवदिति कार्यातिदेशो न त्वयं शास्त्रातिदेशः । तथा चेष्ठनि दृष्टं भूभावं स एवातिदेशो विधत्त इति नात्र सन्नियोगशिष्टपरिभाषायाः प्रवृत्तिः। इत्थं च भावयतीत्येव रूपं सम्यगिति सजयतीति । इष्ठवद्भावेन 'विन्मतो:-' इति लुक् । ननु 'अजादी गुणवचनादेव' इत्युक्त्वाद् इष्ठन्प्रत्ययः स्रग्विन्शब्दाद् दुर्लभ इति इष्ठवद्भावोऽत्रायुक्त इति वाच्यम् । अस्मादेव लुग्वचनाज्ज्ञापकाद्विमन्तान्मतुवन्ताच अजादी भवत इत्यभ्युपगमात् । श्रीमतीमिति । मतुपो लुक् । श्राययति । अशिश्रयदिति । द्वित्वे णिनिमित्तगुणे सत्यादेशः । एतेन ‘स संचरिष्णुर्भुवनान्तरेषु यदृच्छयाशिश्रयदाश्रयः श्रियाम्' इति माघश्लोके अशिश्रयदिति प्रचुरः पाठो व्याख्यातः, यो दिशं श्रीमतीमकरोदित्यर्थादिति मनोरमायां स्थितम् । अत्र केचित्सापेक्षाणां वृत्त्यभावान्मनोरमोकं यत्तदयुक्तम् । न हि कश्चिद् यं घटं करोति तमानये. त्यर्थे यं घटयति तमानयेति प्रयुङ्क्ते । अत एव 'तत्करोति-' इत्यनेनैव सिद्धे मुण्डादिप्रहणं सापेक्षेभ्योऽपि गिजर्थमिति पूर्वोक्तं संगच्छते। यदन्यत्रापि सापेक्षेभ्यो णिच