________________
५३८ ]
सिद्धान्तकौमुदी। [ नामधातु 'इकोऽसवर्णे-' (सू ११) इति प्रकृतिभावपचे प्रतिप्रचिवत् । सम्यञ्चमाचष्टे समीचयति । सम्यचिचत् , समिचिचत् । तिर्यश्चमाचष्टे तिराययति । अचे ष्टिलोपेनापहारेऽपि बहिरङ्गत्वेनासिद्धत्वात्तिरसस्तिरिः। प्रसिद्धनदत्र-'(स २१८३) इति चिणो लुङ्न्यायेन प्रथमटिलोपोऽसिद्धः। अतः पुनष्टिलोपो न, अङ्गवृत्तपरि. णिनिमित्तत्वाद्, आटस्तु लुनिमित्तत्वात् । इकोऽसवणे इतीति । 'न समासे' इति तु न, पृथक्करणेन समासनिवृत्तेः । समीचयतीति । 'समः समिः' इति सम्या. देशः । अच इति लोपे 'चौ' इति दीर्घः । सम्यचिचदिति । सम्यादेशस्य स्थानिवत्त्वेनोपसर्गत्वात् पृथक्करणम् , पृथक्करणेन उत्तरपदपरत्वाभावेऽप्यन्तरगत्वाज्जातः सम्यादेशो न निवर्तते । तिराययतीति । तिरस् इत्यव्ययम् । तत्पूर्वाद् अश्वेः क्विनि नलोपे तिरस् अच् इत्यस्मारणौ टिलोपेन धातोनिवृत्तौ तिरसस्तियेलोपे' इति तिरिभावे इकारस्य वृद्धावायादेशे तिरायि इत्यस्माद् ण्यन्ताल्लडादोति भावः । न च तिरसः पृथक्करणे सति धातोः 'प्रकृत्यैकाच' इति प्रकृतिभावात कथं टिलोप इति वाच्यम् , तिरसित्यस्य कदाप्यनुपसर्गतया उपसर्गसमानाकारत्वाभावेन पृथकरणाभावात् । नन्वेवं सति अञ्चतेष्टिलोपेनापहारे सति अञ्चतिपरकत्वविरहात्कथमिह तिरसस्तिरिभाव इत्यत आह अञ्चेष्टिलोपेनेति । बहिरङ्गत्वेनेति । बहि तणिनिमित्तकत्वादिति भावः। नन्वस्तु तिरसस्तिरिः, तत्र रेफादिकारस्य 'टेः' इति लोपः स्यादित्यत आह असिद्धवदत्रेति । प्रथमटिलोपोऽसिद्ध इत्यन्वयः। तिरस् अच् इ इति स्थिते प्रथमप्रवृत्तः अच् इत्येवंरूपटर्लोपः तिरेः टिलोपे कर्तव्ये श्राभीयत्वादसिद्ध इत्यर्थः । ननु प्रथमटिलोपस्य कथं तिरेष्टिलोपे कर्तव्ये प्रसिद्धत्वम् , टिलोपशास्त्रस्य एकत्वादित्यत आह चिणो लु न्यायेनेति । पचधातोविकर्मणोलुङस्तङि प्रथमपुरुषैकवचने तशब्दे परे 'चिण भावकर्मणोः' इति च्लेश्चिणि उपधावृद्धौ अटि 'पाचि त इत्यस्मात् 'तिडश्च' इति तरपि तदन्तात् 'किमेत्तिङव्ययघादाम्' इत्याम्प्रत्य पे अपाचितरामिति स्थिते 'चिणो लुक्' इति प्रथमस्य तशब्दस्य लुकि कृते पुनस्तरप्प्र ययतशब्दस्य लुङ् इह धात्वकारस्याच इति लोपे चिशब्दात्प्रागटि पूर्वस्य यण् । न चास्तामासन् इत्यादिवदलोपस्यासिद्धत्वादाट स्यादिति वाच्यम् , व्याश्रयत्वात् । एि निमित्तो हि लोपो लुनिमित्तश्चात् । आसन्नित्यादौ तु न तथेति वैषम्यम् । तिराययतीति । उपसर्गसमानाकारत्वाभावादिह तिरसः पृथक्करणं नास्ति, तेन 'प्रकृत्यैवाच' इत्यप्रवृत्तेष्टिलोपन्तदाह अश्चेरिति । चिणो लुङ्ग्यायेनेति । यथाऽपाचितरामित्यत्र चिणः परस्य तशब्दस्य लुकि पुनस्तरप्रत्ययस्य लुङ् न भवति, प्रथमलुकोऽसिद्धत्वेन व्यवधानात् तथेत्यर्थः । पुनष्टिलोपो नेति । तिर्यादेशस्येकारस्य लोपो नेत्यर्थः ।