________________
प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ५३७
1
संप्रसारणं नेत्येके । संप्रसारणे वृद्धावावादेशे च विदावयतीत्यन्ये । निष्यत्वाहिलोपात्प्राक्संप्रसारणम् । अन्तरङ्गत्वात्पूर्वरूपम्, टिलोपः । विदयतीत्यपरे । उदश्चमाचष्टे उदीचयति । उदैचिचत् । प्रत्यत्वं प्रतीचयति । प्रत्यचिचत् । विद्वयतीति । विद्वस्शब्दारणौ टिलोपः । ननु इष्टवत्त्वाद् भत्वे वसोः संप्रसारणमित्याशङ्कया६ अङ्गवृत्तेति । 'अङ्गवृते पुनर्वृत्तावविधिः' इति परिभाषयेत्यर्थः । अङ्गकार्ये कृते पुनर्नाङ्गकार्यम् इति तदर्थः । वस्तुतस्तु विद्वयतीत्यत्र 'टेः' इत्यसो लोपे वस्वन्तत्वाभावात् सप्रसारणा प्रसक्केरङ्गवृत्तपरिभाषोपन्यासो थेत्यस्वरसं सूचयति इत्येके इति । संप्रसारणे इति । विद्वच्छ्रब्दारणौ इष्टवत्वेन टिलोपे कृते वकारस्य संप्रसारणे पूर्वरूपे उकारस्य वृद्धौ श्रवादेशे विदावयतीत्यन्ये मन्यन्ते इत्यर्थः । अत्रापि पूर्ववदेवास्वरसः, टिलोपे सति वस्वन्तत्वाभावात् । नित्यत्वादिति । टिलोपे कृते कृते च प्रवृत्तेः संप्रसारणं नित्यम् । टिलोपस्तु कृते संप्रसारणे पूर्वरूपे च कृते उसो भवति, प्रकृते तु अस इत्यनित्यः, 'शब्दान्तरस्य प्राप्नुवन्विधिरनित्यः' इति न्यायादिति भावः । ननु कृतेऽपि संप्रसारणे पररूपात्प्राग् अस एव टिलोप इति तस्य नित्यत्वमित्यत आह अन्तरङ्गत्वात्पूर्वरूपं टिलोप इति । संप्रसारणे पूर्वरूपे च कृते उसो लोपेऽपि वस्वन्तत्वस्य विनदव संप्रसारणमित्यस्वरसं सूचयति इत्यपरे इति । एवं च विद्वयतीति प्रथमपक्ष एव स्थितः । तत्राङ्गवृत्त परिभाषोपन्यास एव वृथेति स्थितम् । उदीचयतीति । उत्पूर्वकादः ऋत्विगित्यादिना क्विनि 'अनिदिताम् -' इति नलोपे उदचशब्दः । तस्मारणौ इष्ठवत्त्वेन भत्वादच इत्यकारलोपं बाधित्वा 'उद ईत्' इति ईत्त्वे उदीचि इति ण्यन्ताल्लडादय इति भावः । उदैचिचदिति । लुङि 'द्विर्वचनेऽचि' इति णिलोपनिषेधात् चिशब्दस्य द्वित्वम् ' उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते' इत्युक्तेरुद उपर्याडिति भावः । एवं च उदः पृथक्करणेन 'प्रकृत्यैकाच्' इति प्रकृतिभावान्न टिलोपः । प्रतीचयतीति । श्रच इत्यलोपे 'चौ' इति पूर्वस्य दीर्घः । प्रत्यचिचदिति । इह च इत्यल्लोपे चिशब्दात्प्रागटि तकारादिकारस्य यण् । श्रच इत्यकारलोपस्याभीयत्वेऽपि समानाश्रयत्वान्नासिद्धत्वम्, लोपस्य प्रकृतिभावः । नित्यत्वादिति । शब्दान्तरप्राप्त्या तु टिलोपस्यानित्यत्वमिति भावः । उदीचयतीति । उपसर्ग पृथक्कृत्याच शब्दादेव णिजिति 'प्रकृत्यैकाच्' इति प्रवृत्तेः टिलोपो न । 'उद ई' इतीत्वम् । 'अनिदिताम् -' इति क्विनिमित्तो नलोपः । उदैचिचदिति । लुङि 'द्विर्वचनेऽचि' इति णिलोपस्य निषेधाचिशब्दस्य द्वित्वम् । प्रतीचयतीति । 'अचः' इत्यलोपे 'चौ' इति पूर्वस्य दीर्घः । प्रत्यचिचदिति ।