________________
सिद्धान्तकौमुदी।
[नामधातु.
५३६ ] संप्रसारणम् । अन्ये तु नस्तदिते' ( स ६७६) इति नेहातिदिश्यते, इष्टनि तस्यादृष्टत्वात् । ब्रमिष्ठ इत्यादौ परस्वात् 'टेः' (सू १७८६ । इत्यस्यैव प्रवृत्तेः, तेन शुनयतीति रूपमाहुः । विद्वांसमाचष्टे विद्वयति, अनवृत्तपरिभाषया 'प्रकृत्यैकाच्' इति प्रकृतिभावमाशङ्कयाह प्रकृतिभावस्तु नेति । कुत इत्यत
आह येनेति । 'टेः' इति टिलोपे प्राप्ते सत्येव प्रकृत्यैकाजि त्यारभ्यते 'नस्तद्धिते' इत्यस्य स्रजिष्ठ इत्यादी अप्राप्तावपि प्रकृतिभाव आरभ्यते इति भावः । भत्वादिति । इष्टवत्त्वेन भत्वात् 'श्वयुव-' इति संप्रसारणमित्ययः । तथा च श्वन् इ इति स्थिते टिलोपे सति तस्याभीयत्वेनासिद्धत्वादनन्तत्वाद्य संप्रसारणे पूर्वरूपे उकारस्य वृद्धौ श्रावादेशः। अन्ये विति । इष्ठनि दृष्टस्यैव इष्टवदित्यतिदेशः। टेरिन्येव टिलोप इष्टनि दृष्टः, न तु 'नस्तद्धिते' इति । अतो नास्यातिदेश इत्यर्थः । नन्वतिशयेन ब्रह्मा ब्रह्मिष्ठ इत्यत्र 'नस्तद्धिते' इति टिलोणे दृष्ट इत्यत श्राह ब्रह्मिष्ठ इत्यादाविति । तेनेति । 'नस्तद्धित' इत्यस्याप्रवर्तनेनेत्यर्थः । ततश्च प्रकृतिभावात् 'टेः' इति लोपस्याभावे संप्रसारणे शुनयनीति रूपमित्यर्थः ।
आहुरित्यखरसोद्भावनम् । तद्वीजं तु ब्रह्मवच्छन्दादिष्ठनि टेरिति टिलोपापवादे 'विन्मतो क्' इति मतुपो लुकि 'नस्तद्धिते' इति टिलोपो दृष्ट एव । ततश्च इष्ठनि तस्यादृष्टत्वादित्ययुक्तम् । किंच अमिष्ठ इत्यादौ परत्वारित्वस्य प्रवृत्तिरित्ययुक्तम् , केवलस्य ब्रह्मन्शब्दस्य वेदादिवचनस्य गुणवचनत्वामाबेन इष्टनो दुर्लभत्वाद्, 'अजादी गुणवचनादेव' इत्युक्तः। मत्वन्तादिष्ठनि तु मतोलुंकि तेन 'टेः' इत्यस्य प्रवृत्तिबाधेन लुगुत्तरं तदप्रवृत्त्या परत्वादित्यप्यसातिरिति शन्देन्दुशेखरे स्थितम् । बाधते' इति न्यायात् , अकृतम्यूहपरिभाषाया जागरूकत्वाच । येन नाप्राप्तीति । यत्र यत्र 'प्रकृत्येकाच्' इत्यस्य प्रवृत्तिस्तत्र टेरित्यस्य प्रवृत्तिर्न तु 'नस्तद्धिते' इत्यस्य । स्रजिष्ठ इत्यादौ तस्याप्रवृत्तेरिति भावः । 'अनन्तरस्य विषिर्वा भवति प्रतिषेधो वा' इति न्यायेनेत्यन्ये । संप्रसारणमिति । न च टिलोपे सत्यमन्तत्वाभावात् 'श्वयुवमघोनाम्-' इति कथमिह संप्रसारणप्रवृत्तिरिति शक्यम्, स्थानिवत्त्वादसिद्धवदत्रेत्यसिद्धत्वाता टिलोपेऽप्यन्नन्तत्वलाभात् । अतद्धित इति हि तत्र पयुदासो न तु प्रतिषेधः । तेन तद्धिते न विधिर्न निषेधः, किं तु तद्धितमिन्ने परे विधिः । तद्धितभिन्नत्वं तु णिचोऽस्त्येवेति न संप्रसारणप्रतिबन्धः, नापि दविष्ठ इत्यादा वेष्ठनि श्रोगुणो दृष्ट इतीहापि वृद्धि बाधित्वा गुणः स्यादिति वाच्यम् , जातेऽपि गुणे पुनर्वृद्धौ रूपसिद्धेः । अथवा टिलोपसंप्रसारणयोर्गुणं प्रति 'असिद्धवदत्र-' इत्यसिद्धत्वादिष्ठवद्भावेन नास्ति गुणप्रसङ्गः । शुनयतीति । इष्टवद्भावेन भत्वात्संप्रसारणम् 'प्रकृत्येकाच्' इति