________________
प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५३५ प्रकृतिभावात् । न च प्रकृतिभावो भाज्ये प्रत्याक्यात इति भ्रमितम्यम्, भाज्यस्य प्रेष्ठाघदाहरणविशेषेऽन्यथासिद्धिपरत्वात् । युवामावां वा युष्मयति अस्मयति । श्वानमाचष्टे शावयति । 'नस्तद्धिते' (सू ६७६) इति टिलोपः । प्रकृतिभावस्तु न, येन नाप्राप्तिन्यायेन 'टेः' (सू १७८६) इत्यस्यैव बाधको हि सः । भस्वात् लोपो न भविष्यतीत्युक्त्वा सग्वितमः स्रजिष्ठ इत्यत्र 'विन्मतोलुंक्इति लुकि टिलोपनिवृत्त्यर्थ प्रकृतिभावविधानमित्युक्त्वा प्राप्त एव टिलोपे आरभ्यमाणस्य लुकस्तपदवादतया लुका टिलोपस्य बाधो भविष्यतीति 'प्रकृत्यैकाच्' इत्यस्य भाष्ये प्रत्याख्यातत्वात् त्वादयति, मादयति इत्यत्र प्रकृतिभावोपन्यासो न युज्यते इत्याशङ्कय निराकरोति न च प्रकृतिभावो भाष्ये प्रत्याख्यात इति भ्रमितव्यमिति । कुत इत्यत आह भाष्यस्येति । उदाहृतभाष्यस्य हि प्रेयान् प्रेष्ठ इत्यादीनां प्रकृतिभावं विनाऽपि साधने तात्पर्यम् , न तु प्रकृतिभावप्रत्याख्यानमभिमतम् , स्वमाचष्टे स्वापयतीत्यादौ तदावश्यकत्वात् । अत एव 'प्रकृत्यैकाजिष्ठेमेयस्सु
चेन्नैकाच उच्चारणसामर्थ्यादवचनात् प्रकृतिभावः' इति वार्तिकव्याख्यावसरे 'अन्त. रेणापि वचनं प्रकृतिभावो भविष्यति' इति भाष्ये उत्तम् । अन्यथा अन्तरेणैव वचनमित्युच्येत इत्यास्तां तावत् । 'प्रत्ययोत्तरपदयोश्च' इत्यत्र एकवचने इत्यनु. वृत्तम् । तच्च यौगिकमाश्रीयते । एकत्वविशिष्टवाचिनोयुष्मदस्मदोरिति लभ्यते इति मत्वाह युवामावां वेति । न च द्वयोरुतौ युवावादेशौ शङ्कयौ, विभक्तेलुका लुप्तत्वात् । न च लुकः प्रागेव युवावी किं न स्यातामिति वाच्यम् , 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुम्बाधते' इत्युक्तरिति भावः । शावयतीति । श्वानमाचष्टे इत्यर्थः । श्वशब्दारणौ श्वन् इ इति स्थिते आह नस्तद्धित इति । वाच्यम्, व्याश्रयत्वात् । भाष्यस्येति । वृत्तिकारैर्हि 'प्रकृत्यैकाच्' इति सूत्रे प्रेयान् प्रेष्ठ इत्यादय उदाहृताः । ते च प्रस्थाद्यादेशविधायकस्य 'प्रियस्थिर-' इत्यादिशास्त्रस्य 'असिद्धवदत्राभात्' इत्यसिद्धवद्भावेन प्रस्थादावकारोचारणसामर्थ्याद्वा भाष्ये प्रकृतिभावं विनैव साधिताः। स्रग्विन् स्रजिष्ठ इत्यादावपि टिलोपो न भविष्यति, लोपापवादस्य विन्मतोलुंकस्तत्र प्रवर्तनात् । एषैवानेकाक्षु पयखान् पयसिष्ठः चम्पक स्रजिष्ठं इत्यादिषु गतिः। न चैतावता 'प्रकृत्येकाच्' इति सूत्रं प्रत्याख्यातमिति मन्तव्यम् , स्थापयतीत्यादौ तस्यावश्यकत्वादिति भावः । युवामावामिति । युष्मानस्मानिति विप्रहेऽपि युष्मयति अस्मयतीत्येव रूपम् । न च द्वयोरक्को युवावी भवत इति रूपे विशेषः शयः, विभक्तिपरत्वाभावात् । न च प्रत्ययलक्षणम् , लुका लुप्तत्वात् । न च प्रागेवादेशोऽस्त्विति वाच्यम्, 'अन्तरमानपि विधीन्बहिरो लुग