________________
प्रकरणम् ५७ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५३३
दारदयति । पृथुं प्रथयति । वृद्धौ सत्यां पूर्व वा टिलोपः । अपिप्रथत्, अपप्रथत् । मृदुं ह्रदयति । श्रमम्रदत् । भृशं कृशं दृढं भ्रशयति ऋशयति द्रढयति । अबभ्रशत् अचक्रशत् श्रदद्रढत् । परिव्रढयति । पर्यवत्रढत् । ऊदिमाख्यत् श्रजित् । ढरवादीनामसिद्धत्वाद् इतिशब्दस्य द्वित्वम् । 'पूर्वत्रासिद्धीयमद्विस्वे' इति स्वनित्यमित्युक्रम् | ढिशब्दस्य द्विस्वमित्यन्ये, भौडिढत् । ऊढमाख्यत्,
1
इत्यणो लुक् । तामाचष्टे इत्यर्थे दरच्छब्दाणौ इष्टवत्त्वात् पुंवत्वेन स्त्रियामित्यनुवृत्तौ 'अतश्च' इति स्त्रियां विहितस्य अण्प्रत्ययलुको निवृत्तौ दारदशब्दे टेर्लोपे दारदयतीति रूपं सिध्यति । पुंवद्भावाभावे तु दरदुशब्दस्य टिलोपे सति दरयतीति स्यादिति भावः । टिलोपस्य अजादेशत्वेन स्थानिवत्त्वान्नोपधावृद्धिः ।
'पृथुं मृदुं भृशं चैव कृशं च दृढमेव च ।
1
परिपूर्व वृढं चैव षडेतान् रविधौ स्मरेत् ॥' इति । श्लो० ग० कारः । क्रमेोदाहरति पृथुमिति । श्राचष्टे इति शेषः । प्रथयति । तत्र प्रक्रियां दर्शयति वृद्धौ सत्यामिति । पृथु इ इति स्थिते परत्वाद् वृद्धौ कृतायां टिलोपः । अथवा कृतायामकृतायां च वृद्धौ प्रवृत्या नित्यत्वाद् वृद्धेः प्राक् टिलोपः । उभयथापि 'र ऋतः -' इति रभावे प्रथयतीति रूपमिति भावः । वस्तुतस्तु अकृतायां वृद्धौ उकारस्य लोपः । कृतायां तु चौकारस्य लोपः । तथा च 'शब्दान्तरस्य प्राप्नुवन् विधिरनित्यः' इति टिलोपोऽनित्यः । ततश्च परत्वात् टिलोपात् प्राग्बुद्धिरेवेति 'मुण्डमिश्र-' इति सूत्रे भाष्ये स्थितम् । वृद्धौ सत्यां पूर्व वा टिलोप इति मूलं तु कृताकृतप्रसङ्गित्वाट्टिलोपस्य नित्यत्वमभिप्रेत्येति बोध्यम् । अपिप्रथदिति । वृद्धौ सत्यां टिलोपे अग्लोपित्वाभावात् सन्वत्त्वे 'सन्यतः' इति इत्त्वमिति भावः । श्रपप्रथदिति । वृद्धेः पूर्व टिलोपेन उकारस्य निवृत्तावग्लोपित्वात् सन्वत्त्वाभावे रूपम् । अबभ्रशदित्यादौ वृद्धेः पूर्व पश्चाद्वा टिलोपेऽपि ग्लोपित्वान्न सन्वत्त्वमिति भावः । श्रजिददिति । वहधातोः क्तिनि ढत्वधत्वष्टुत्वढलोपेषु ऊढिः । तस्माद् णौ टिलोपे ऊढि इति ण्यन्ताल्लुङि चङि आटि वृद्धौ श्रौढि अ त् इति स्थिते प्रक्रियां दर्शयति ढत्वादीनामिति । ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वाद् 'अजादेर्द्वितीयस्य' इति इतिशब्दस्य द्वित्वमित्यर्थः । इत्युक्तमिति । लुग्विकरण
चष्टे दारदयति । इह पुंवद्भावाभावे टिलोपे सति दरयतीति स्यात् । प्रथयतीति । ‘र ऋतो हलादेः-' इति रभावः । अपिप्रथदिति । वृद्धौ सत्यां टिलोपेऽनग्लोपित्वात्सन्वद्भावे सति ‘सन्यतः' इतीत्वम् । वृद्धेः पूर्व टिलोपे तु अपप्रथत् । श्रज ढदिति । इह टिलोपे सति णिचसहितस्य द्वित्वे पश्चादभ्यासेकारो दुर्लभ इत्यत