________________
५३२ ] सिद्धान्तकौमुदी। [नामधातुव्यञ्जनम् । हलिकल्योरदन्तस्वार्थम् । सत्यस्यापुगर्थम् । केषाचित्तु प्रपश्चार्थम् । सत्यं करोत्याचष्टे वा सत्यापयति । 'अर्थवेदयोरप्यापुरवक्तव्यः' (वा १७५८ )। अर्थापयति, वेदापयति । पाशं विमुञ्चति विपाशयति । रूपं पश्यति रूपयति । वीणयोपगायत्युपवीणयति । तुलेनानुकुष्णात्यनुतूलयति। तृणाग्रं तूलेनानुघट्टय. तीत्यर्थः । श्लोकैरुपस्तौति उपश्लोकयति । सेनयाभियानि अभिषेणयति । 'उपसर्गास्सुनोति-' (सू २२७० ) इति षः। अभ्यषेणयत् । 'प्राक्सितात्-' (स २२७६) इति षः । अभिषिषणयिषति । 'स्थादिप्वभ्यासेन च-' (सू २२७७) इति षः । लोमान्यनुमार्टि अनुलोमयति । 'स्वच संवरणे' घः, स्वचं गृह्णाति स्वचयति । वर्मणा संनद्यति संवर्मयति । वर्ण गृह्णाति वर्णोते । चूणैरवध्वंसते प्रवचूर्णयति । इष्टवदित्यतिदेशात्पुंवद्भावादयः । एनीमाचष्टे एनयति । दरदमाचष्टे लवणयति व्यञ्जनमिति । लवणयुक्तं करोतीत्यर्थः । हलिकल्योरिति । एवं च ताभ्यां सापेक्षाभ्यां न णिच् , तद्ग्रहणस्य अदन्तत्वनिपातने चरितार्थत्वादिति भावः । ननु सत्यशब्दात् तत्करोति इत्यादिनैव णिसिद्धेः 'सत्याप-' इति सूत्रे सत्यग्रहणं व्यर्थमित्यत आह सत्यस्यापूगर्थमिति । केषांचिदिति । पाशादीनामित्यर्थः । सत्यापयतीति । आपुग्विधिसामर्थ्यान्न टिलोपः। पाशं विमुञ्चतीत्यादौ 'प्रातिपदिकाद्धात्वर्थे-' इति णिच् । अभिषिषेणयिषतीति । अभि षेणि इति ण्यन्तात्सनि रूपम् । ननु त्वचं गृह्णाति त्वचयतीति कथम ? विच्छब्दाच्चकारान्तारिणचि टिलोपे त्वयतीत्यापत्तेरित्यत आह त्वचेति । 'लाच संवरणे' इत्यस्मात् 'पुंसि संज्ञायां घः प्रायेण' इति घप्रत्यय इत्यर्थः। पुंवद्धावादय इति । आदिना रभावटिलोपादिग्रहणम् । एतयतीति । 'भस्याढे-' इते पुंवत्त्वस्य इष्ठनि प्रवृत्तेः णावपि तस्यातिदेशाद् 'वर्णादनुदात्तात्-' इति स्त्रीप्रत्ययस्य तत्संनियोगशिष्टनत्वस्य च निवृत्तौ एतशब्दे तकारादकारस्य टिलोप इति भावः । नन्वेनीशब्दारणौ टिलोपेन स्त्रीप्रत्ययनिवृत्तौ तत्संनियोगशिष्टनत्वस्यापि निवृत्तौ एतयतीति सिध्यतीत्यस्वरसात् पुंवद्भावे उदाहरणान्तरमाह दरदमिति । दरदिति कश्चिद्राजा, तस्यापत्यं दारदः, 'घञ्मगध-' इत्यण । स्यपत्ये तु दरदोऽपत्यं स्त्री दरत् , 'अतश्च' तदेव मुण्डयतीति वृत्तिः स्याद् न तु माणवकादिप्रयोगे। णिजन्तस्य सनाद्यन्तवृत्तित्वात्सविशेषणानां वृत्त्यभावाचेति । घ इति । 'पुंसि संज्ञायाम्-' इत्यनेन । पुंवद्धा. वादय इति । श्रादिशब्देन रभावटि लोपादयः । टिलोपेनैवैत पतीत्यादिरूपसिद्धौ पुंवद्धावग्रहणं दारदयतीति सिध्यर्थमिति चुरादिष्वेवास्माभिरुतम । दरदोऽपत्यं दारदः । 'घामग्ध-' इत्यण । तस्य स्त्रियाम् 'अतश्च' इति लुकि दरद् , तामा