________________
प्रकरणम् ५७] बालमनोरमा-तत्त्वबोधिनीसहिता [५३१ लुप्यते । अतः सन्वद्भावदी? न । अजहलत् । अचकलत् । कृतं गृहाति कृतयति । स्तानि विहन्ति विस्तयति । तूस्तं केशा इत्येके । जटीभूताः केशा इत्यन्ये । पापमित्यपरे। मुण्डादयः 'सत्यापपाश-' (सू २५६३) इत्यत्रैव पठितुं युक्ताः । 'प्रातिपदिकाद्धात्वर्थे-' इत्येव सिद्ध केषांचिद् ग्रहणं सापेक्षेभ्योऽपि पिजर्थम् । मुण्डयति माणवकम् । मिश्रयत्यन्त्रम् । श्लषणयति वस्त्रम् । लवणयति हलिकलिभ्यां णौ इकारस्य प्रकारे इष्टवत्त्वेन टेर्लोपे हलि कलि इति ण्यन्ताभ्यां लडादीति भावः । महद्धलं हलिरिति । अत्र वृद्धप्रयोगः अन्वेषणीयः । नन्वनयोरिकारान्तयोर दन्तत्वनिपातनं व्यर्थम् । इकारस्य णाविष्टवत्त्वाल्लोपे हलयति कलयतीति सिद्धेः। न च अचहलत् अचकलत् इत्यत्र सन्वत्त्वाप्रवृत्तये अग्लोपित्वाय तयोरदन्तत्वमिति वाच्यम् , इकारलोपेऽप्यग्लोपित्वसिद्धरित्यत आह परत्वादिति । इकारस्य णौ इष्टवत्त्वे टिलोपात् प्रागेव परत्वाद् 'अचो रिणति' इति वृद्धौ कृतायां ऐकारस्य इश्वत्त्वात् टिलोपे अग्लोपित्वं न स्यात् । इकारयोरत्त्वे तु अकारस्य टिलोपात् प्राक् परत्वाद् वृद्धौ सत्यामप्याकार एव इष्टवत्त्वाल्लुप्यत इत्यर्थः। अत इति । अग्लोपित्वात् सन्वत्त्वम्, 'दी| लघोः' इति दीर्घश्च नेत्यर्थः । कृतं गृह्णातीति उपकारं स्वीकरोतीत्यर्थः । पठितुं युक्ता इति । लाघवादेकसूत्रत्वं युक्तमित्यर्थः । केषांचिदिति । मुण्डादीनामित्यर्थः । सापेक्षेभ्योऽ. पीति । अन्यथा णिजन्तस्यास्य सनाद्यन्तवृत्तित्वाद्विशेषणसापेक्षत्वे मुण्डादिभ्यो णिच् न भवेत् , सविशेषणानां वृत्तिनिषेधात् । इह मुण्डादीनां पुनर्ग्रहणे तु तत्सामर्थ्यात् सापेक्षेभ्योऽपि मुण्डादिभ्यो णिच् सिध्यतीत्यर्थः । स्पष्टं चेदं 'सुप श्रात्मनः-' इत्यत्र भाष्यकैयटयोः । मुण्डयति माणवकमिति । अत्र माणवकं मुण्डं करोतीत्यर्थे मुण्डशब्दस्य माणवकसापेक्षत्वेऽपि णिच सिध्यति । अन्यथा यदा प्रकरणादिना माणवकादिविशेषो ज्ञायते तदैव मुण्डयतीति णिच स्यादिति भावः । 'सुप आत्मनः-' इति सूत्रभाष्ये तु मुण्डयति माणवकमित्यत्र गमकत्वारिणच् , महान्तं पुत्रमिच्छतीत्यादौ तु अगमकत्वाद् न क्यजित्युक्तम् । प्रपञ्चार्थमेव मुण्डादिग्रहणमिति शब्देन्दुशेखरे स्थितम् । श्लक्ष्णयति वस्त्रमिति । निर्मलं करोतीत्यर्थः । पपादितम् । कृतयतीति । उपकारं खीकरोतीत्यर्थः । पठितुं युक्ता इति । एकसूत्रकरणे लाघवमिति भावः । सापेक्षेभ्योऽपीति । विधानसामर्थ्यादिति भावः । अन्यत्र तु रमणीयं पटुमाचष्टे इत्येव न तु पटयतीति वृत्तिः । सापेक्षत्वमेव दर्शयति माणवकमित्यादिना । अयं भावः-द्वितीयान्ताद्विधीयमानो णिच् पदविधित्वात्सापेक्षेभ्यो न भवेत् , किं तु यदा प्रकरणादिना माणवकस्येति ज्ञायते