________________
प्रकरणम् ५७] बालमनोरमा-तत्त्वबोधिनीसहिता। [५२६ इति णिजपीप्यते इति न्यासः । शब्दयति । 'सुदिनदुर्दिननीहारेभ्यब' (वा १७३६-३७ )। सुदिनायते । २६७४ सुखादिभ्यः कर्तृवेदनायाम् । (३-१-१८) एभ्यः कर्मभ्यो वेदनायामर्थे क्वङ् साद्वेदनाकर्तुरेव चेत्सुखादीनि स्युः । सुखं वेदयते सुखायते । कर्तृग्रहणं किम्-परस्य सुखं वेदयते । २६७५ नमोवरिवश्चित्रङः क्यच । (३-१-१६) करणे इत्यनुवृत्तेः क्रियाविशेषे पूजायां परिचर्यायामाश्चर्य च । नमस्यति देवान् , पूजयतीत्यर्थः। वरिवस्यति गुरून् , शुश्रूषत इत्यर्थः । चित्रीयते, विसयत इत्यर्थः । विस्मापयत इस्यन्ये । २६७६ पुच्छभाण्डचीवरारिणङ् (३-१-२०) 'पुच्छादुदइति । तत् करोतीति चोऽपवादः । पते इति । कदाचिदित्यर्थः । न्यास इति। भाष्यानारूढत्वमत्र अरुचिबीजम् । सुदिनदुर्दिन इति । वार्तिकम् । करोत्यर्थे क्यउिति शेषः । सुखादिभ्यः। कर्तृ इति पृथक्पदं लुप्तषष्ठीकम् । 'कर्मणो रोमन्थ-' इत्यतः कर्मप्रहणानुवृनि मत्वाह एभ्यः कर्मभ्य इति । वेदनायामिति । ज्ञाने इत्यर्थः । कर्तृत्वं च वेदनां प्रत्येव विवक्षितम् , उपस्थितत्वात् । वेदनाकर्तृवृत्तिभ्यः सुखादिशब्देभ्य इति लभ्यते, फलितमाह वेदनाकर्तुरेव चेदिति सुखं वेदयत इति । जानातीत्यर्थः । 'विद चेतनायाम्' इति चुरादौ । नमोवरिवस् । नमस् , वरिवस् , चित्रङ् एषां समाहार द्वन्द्वात्पञ्चमी। श्रात्मनेपदार्थ चित्रशब्दो डिनिर्दिष्टः । 'शब्दवर-' इत्यतः करणे इत्यनुवर्तते । करणं किया, सा च पूजापरिचर्याश्चर्यात्मिका विवक्षिता, 'नमसः पूजायाम्' 'वरिवसः परिचर्यायाम्', 'चित्रङ श्राश्वर्ये' इति वार्तिकः, तदाह करणे इत्यनुवृत्तेरित्यादिना । नमस्यति देवानिति। कारकविभक्तेर्बलीयस्त्वाद् द्वितीया। परिचर्या शुश्रूषेति मत्वाह शुश्रूषते इत्यर्थे इति । आश्चर्यशब्दो विस्मयवाचीति मत्वाह विस्मयत इत्यर्थ इति । विस्मापयत इत्यन्ये इति । आश्चर्यशब्दो विस्मापनपर इति भावः। ततश्चित्रीयमाणोऽसाविति भट्टिः । असौ मायामृगो विस्मयमुइत्याह एभ्यः कर्मभ्य इति । सुखादिभ्यः। कर्तृ इति पृथक्पदं लुप्तषष्ठीकम् । विद चेतनाख्याननिवासेष्विति चौरादिकाद्युचि वेदनाशब्दो ज्ञानवाची, तदपेक्षमेव कर्तृत्वम् । कर्ता च सुखादिभिरन्वेति। तदेतदाह वेदनाकर्तुरेवेति । परस्य सुखमिति । इह यनिष्ठं सुखं तद्भिनो वेदनाकर्तेति वाक्यमेव । सुखादयः सुखदुःखतृप्रकृच्छ्रादयः। नमोवरिवः। चित्रङः क्यज्विधानमीत्वार्थ विकरणं तु तर्थम् । विस्मापयत इत्यन्य इति । तथा च भट्टिः-'ततश्चित्रीयमाणोऽसौ' इति । असौ मायामृगश्चित्रीयमाणो विस्मयमुत्पादयनित्यर्थः । पुच्छभाण्ड । करणे
, 'वेदनाकर्तृवृत्तिवाचिभ्यः' इति क्वचित् पाठः।