________________
५२८ ]
सिद्धान्तकौमुदी। [नामधातुभ्यां क्रमेण वर्तनायां चरणे चार्थे क्यङ् स्यात् । रोमन्थं वर्तयति रोमन्थायते । 'हनुचलने इति वक्तव्यम्' (वा १७६२)। चर्वितस्याकृष्य पुनश्चर्वणम् इत्यर्थः । नेह-कीटो रोमन्थं वर्तयति । अपानप्रदेशान्निस्सृतं द्रव्य मेह रोमन्थः, तदनातीत्यर्थ इति कैयटः । वर्तुलं करोतीत्यर्थ इति न्यासकारहरदत्तौ । 'तपसः परस्मैपदं च' (वा १७६६ )। तपश्चरति तपस्यति । २६७४ बाष्पोम भ्यामद्वमने । (३-१-१६) प्राभ्यां कर्मभ्यां क्यङ स्यात् । बाष्पमुहमति बाप्पायते । ऊष्मायते । 'फेनाच्चेति वाच्यम्' (वा १.६४) । फेनायते । २६७३ शब्दवैरकलहाभ्रकरवमेघेभ्यः करणे । (३-१-१७) एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । शब्दं करोति शब्दायते । पक्षे 'तस्करोति' द्भावे क्विप् , वर्ति चर अनयोर्द्वन्द्वात्सप्तमी । आवर्तने चरणे चेति लभ्यते । कर्मशब्देन कर्मकारकं विवक्षितम् । द्वित्वे एकवचनम् । तथ च कर्मकारकवृत्तिभ्यां रोमन्थतपश्शब्दाभ्यामिति लभ्यते । यथासंख्यमन्वयः, तदा । रोमन्थतपोभ्यामिति । रोमन्थमिति । उद्गीर्णस्य निगीर्णस्य वा मन्थो मन्थ इति भाष्यम् । उद्गीर्णस्य उदरादुपरि कण्ठद्वारा निर्गतस्य, निगीर्णस्य अपानद्व रा निर्गतस्य च मन्यः चर्वणं रोमन्थ इत्यर्थः । वर्तयतीति । आवर्तयतीत्यर्थः । हनुचलन इति । हनु तालु, तच्चलने सत्येव अयं विधिरित्यर्थः। तथा च उदरगतं भक्षितं द्रव्यं तृणादिकं पुनःपुनराकृष्य तालुचलनेन चूर्णितस्य पुनःपुनः प्राशने रं मन्थशब्दात् क्यविति फलितम् , तदाह चर्वितस्येति । हनुचलनेन भक्षित्स्य उदरं प्रविष्टस्य पुनःपुनराकृष्य हनुचलनेन भक्षणे गम्ये इति फलितमित्यर्थः । कीट इति । इह हनुचलनाभावान्न क्यङिति भावः । तदेवोपपादयति अपानेति । तपसः परस्मै. पदं च । इति वार्तिकम् । तपश्शब्दः कर्मकारकवृत्तिः पूर्वसूत्र चरणे क्यडं लभते । ङित्त्वप्रयुक्तमात्मनेपदं बाधित्वा परस्मैपदमेव लभते इत्यर्थः । तपस्यतीति । प्रातिपदिकादेवास्य क्यकुत्पत्तेरन्तर्वतिविभक्त्यभावाद् ‘नः क्ये' इति नियमाच पदवा. भावान्न रुत्वमिति भावः । बाष्पोष्मभ्यामुद्वमने । आभ्यां कर्मभ्यामिति । 'कर्मणो रोमन्थ-' इत्यतः कर्मग्रहणमनुवर्तते इति भावः, कर्मकार कवृत्तिभ्यामित्यर्थः । फेनायते इति । फेनमुद्रमतीत्यर्थः । शब्दवैर । करणं त्रिया, तदाह करोत्यर्थ संबन्धादेकवचनमित्याह कर्मभ्यामिति । वर्तनायां चर ग इति । सूत्रे वतीति रायन्ताद् वृतेः ‘ण्यासश्रन्थ-' इति युचं बाधित्वा अस्मादेः निपातनात् किन् । चर्तेस्तु संपदादित्वाद् भावे क्विबिति भावः । केचित्तु वर्तिशब्द वर्तयतेः 'इश्तिपो-' इति इकि रूपम् । लक्षणया चार्थलाभ इत्याहुः । शब्दवैर । कर्मण इत्यनुवर्तते