________________
प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५२७ वर्तन्ते । लिङ्गविशिष्टपरिभाषया लोहिनीशब्दादपि क्यष् । लोहिनीयति, लोहिनीयते । २६७० कष्टाय क्रमणे । (३-१-१४)। चतुर्यन्तात्कष्टशब्दा. दुस्साहेऽर्थे क्यङ् स्यात् । कष्टाय क्रमते कष्टायते । पापं कर्तुमुत्सहत इत्यर्थः । 'सत्रकचकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वनग्यम्' (वा १७६१)। करवं पापम् । सत्रादयो वृत्तिविषये पापार्थाः। तेभ्यो द्वितीयान्तेभ्यश्चिकीर्षायां क्यछ । पापं चिकीर्षतीत्यस्वपदविग्रहः । सत्रायते, कक्षायते इत्यादि । २६७१ कर्मणो रोमन्थतपोभ्यां वर्तिवरोः। (३-१-१५) रोमन्थतपोभ्यां कर्म. मत्वाह श्यामायते इति । श्यामो भवतीत्यर्थः । ननु देवदत्तः सुखायते इति कथम् ? देवदत्तस्य सुन्वत्वाभावादित्यत आह सुखादय इति । श्यामादिषु ये सुखदुःखादिशब्दा गुणवचनाः ते सुखादिगुणवति वर्तन्ते इत्यर्थः । एवं च सुखायते इत्यस्य सुखवान् भवतीत्यर्थः । एवं दुःखायते इत्यदावपि । ननु लोहितशब्दाद्विहितः क्यष् कथं लोहिनीशब्दात् स्यादित्यत आह लिङ्गविशिष्टेति । कष्टाय क्रमणे । क्रमणशब्दं विवृणोति उत्साहे इति । अस्खरितत्वात् क्यषिति नानुवर्तते इति भावः । कियार्थोपपदस्येति चतुर्थीति मत्वाह पापं कर्तुमिति । क्रमते इत्यत्र 'वृत्तिसर्गतायनेषु क्रमः' इति तङ् । 'कण्वचिकीर्षायाम्' इत्यत्र करवपदं व्याचष्टे करावं पापमिति । सत्रादिशब्दान् विवृणोति सत्रादय इति । द्वितीयान्तेभ्य इति । चिकौर्षायां द्वितीयान्तस्यैवान्वययोग्यत्वादिति भावः। करवशब्दस्तु सत्रादिशब्दानां करवपरत्वे तात्पर्यग्राहकः । केचित्तु करवेत्यविभक्तिकम् । कण्ववर्तिभ्य इति व्याचक्षते। अस्वपदविग्रह इति । वृत्तावेव सत्रादिशब्दानां पापवाचित्वादिति भावः । इदं कष्टशब्दादन्यत्रैव । कष्टाय क्रमते इति तु स्वपदविग्रहोऽस्त्येव । भाष्ये एवं विग्रहं प्रदर्थ सत्रादिषु विग्रहाप्रदर्शनादित्याहुः । कर्मणो रोमन्थ । वृतुधातोय॑न्ताद् 'धात्वर्थनिर्देश इग्वक्तव्यः' इति इकि वर्तिशब्दः । आवर्तनमर्थः । चरेः संपदादित्व'. इति सूत्रद्वये क्यषोऽपि ग्रहणं वदन्तः परास्ताः । लोहिनीयतीति । क्यडि सति तडेच स्यात् । 'क्यङ्मानिनोश्च' इति पुंवद्भावश्चति भावः । कष्टाय क्रमणे । क्य.. वानुवर्तते, स्वस्तित्वाद् न तु क्यष् । कष्टायेति निर्देशादेव चतुर्थ्यन्तं लभ्यते । कमणमुत्साहः । 'वृत्तिसन्तायनेषु-' इति क्रमेरात्मनेपदविधायकसूत्रे सर्ग उत्साह इति सर्वेाख्यातत्वात् । कष्टं कृच्छम् । 'कृच्छ्गहनयोः कषः' इति इडभावः । न च दुःखं कर्तुमुत्साहः संभवतीति तत्साधनं पापमिह गृह्यत इत्याह पापं कर्तुमिति । द्वितीयान्तभ्य इति । चिकीर्षायां द्वितीयान्तस्यैवान्वययोग्यत्वादेवमुक्तम् । कमयो रोगन्थतपाभ्यामित्यनेन सामानाधिकरण्यात्कर्मण इति पञ्चमी। प्रत्येक