________________
प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५२५ इति चशब्देन पुनर्वृद्धिविधानादिदं सिद्धमिति पाठे स्थितम् । २६६८ लोहिता. दिडाउभ्यः क्यप् । (३-१-१३) लोहितादिभ्यो डाजन्ताश्च भवत्यर्थे क्यष् स्यात् । २६६६ वा क्यषः। (१-३-६०) क्यषन्तापरस्मैपदं वा स्यात् । लोहितायति, लोहितायते । अत्र अन्वेः इत्यनुवृत्या अभूततद्भावविषयवं श्रोमि परत उदाहरति औङ्कारीयदिति । ओङ्कारशब्दात् क्यजन्ताल्लङि अङ्गस्य आटि कृते 'श्रोमाडोश्व' इति पररूपं प्राप्तमनेन निषिध्यते। आङि उदाहरति प्रौढीयदिति । श्रा ऊह श्रोढः, तस्मात् क्यजन्ताल्लङि अगस्य श्रोढशब्दस्य आटि कृते 'ओमाडोश्व' इति पररूपं प्राप्तमनेम निषिष्यते। उदाहरणत्रयमिदं भाष्ये स्थितम् । तत्र यदि उपसर्गस्वरूपस्य एकादेशेनापहारेऽपि पृथक्करणं स्यात् तर्हि क्यचि विवक्षिते श्राङः पृथक्कृती सत्यां धातुबहिर्भावादूढशब्दात् प्रागाङः परत्र श्राटि सति पररूपस्या प्रसकराति पररूपप्रतिषेधो व्यर्थः स्यात् । उक्तज्ञापकस्य सजातीयविषयत्वे तु अत्र आड एकादेशेनापहारात् पृथकरणाभावादोढशब्दात् प्रागाडागमे सति आडि पररूपप्राप्तेस्तनिषधोऽर्थवान् भवति । अतो ज्ञापकस्य सजातीयविषयत्वे 'उस्योमाक्षु-' इत्याग्रहणम् श्रौढीयदिति तदुदाहरणपरभाष्यं च अत्र प्रमाणमिति भावः । ज्ञापकस्य सजातीयविषयत्वे प्रमाणान्तरमाह प्राटश्चेति चशब्देनेति । 'पाटश्च' इति चकारः पुनईद्धिविधानार्थः । तथा च आटोऽचि वृद्धिरेव यथा स्याद् नान्यत्पररूपमिति लभ्यते इत्यपि षष्ठाध्याये 'ओमामेश्व' इति सूत्रे 'पाटश्च' इति सूत्रे च भाष्ये स्थितमित्यर्थः । एवं च एतद्वार्तिकप्रत्याख्यानपरः सौत्रश्चकारस्तद्भाष्यं चात्र ज्ञापकमित्युक्तं भवति । लोहितादि । भवत्यर्थे इति । 'मृशादिभ्यो भुवि-' इत्यतो भुवि इति अनुवृत्तेरिति भावः । वा क्यषः । परस्मैपदमिति । 'शेषात्कर्तरि-' इत्यतस्तदनुवृत्तेरिति भावः । लोहितायतीति । अलोहितो लोहितो भवतीत्यर्थः । अत्रेति । 'लोहितादि-' इति सूत्रे इत्यर्थः । कारोऽपि ज्ञापकस्य विशेषविषयत्वेऽनुकूल इत्याह चशब्देनेति । षाष्ठे स्थितमिति । भाष्यकारोऽप्युक्तार्थे प्रमाणभूत इति भावः । स्यादेतत्-अवधीरयतीत्यादाववशब्दस्य पृथक्करणमस्ति वा न वा । आद्य बोपदेवेनावशब्दात् प्रागाडागमं वकारद्वित्वं च कृत्वा चङि श्राववधीरदित्युदाहृतं तन संगच्छेत । द्वितीये तु 'इतीव धारामवधीर्य मण्डलीक्रियाश्रियामण्डि तुरङ्गमर्मही' इति श्रीहर्षप्रयोगो न संगच्छेतति चेत् । अत्राहु:-नायं धातुश्चुरादौ पठितः किं तु 'बहुलमेतन्निदर्शनम्' इति बाहुलकादूहितः। ऊहश्च धीरेत्यस्यापि संभवति अवधीरेत्यस्यापि । प्रयोगद्वयप्रामाण्यान्मुनित्रयविरोधाभावाच्च । यदा त्ववधीरेति विशिष्टस्यैव धातुत्वं तदाऽवधीरयित्वेति