________________
५२४ ]
सिद्धान्तकौमुदी |
[ नामधातु
ल्यप् । ज्ञापकस्य विशेषविषयत्वे षाष्ठवार्तिकं तद्भाष्यं च प्रमाणम् । तथाहि'उस्योमाङ्क्षवाटः प्रतिषेधः ' ( वा ३६३६ ) | उस्योमाङोश्च परयोराटः पररूपं नेत्यर्थः । उस्रामैच्छत् श्रौत्रीयत् । श्रौङ्कारयत् । श्रौढीयत् । ' आटश्च' (सू २६६ )
शब्दाद् भृशादित्वात् क्यङि प्रोढायेत्यस्मात् क्यङन्तात् क्त्वाप्रत्यये श्रतो लोपे रूपम् । अत्रेति । अत्र न ल्यवित्यन्वयः । क्यङि विवक्षिते आड एक देशेनापहृतत्वेन पृथक्करणाभावे सति तस्य श्राङ: क्त्वाप्रत्ययान्तेन समासाभावान्न लबिति भावः । उन्मनाय्य, अवगल्भ्य इतिवदिति व्यतिरेकदृष्टान्तः । उन्मनस्शब्दाद् भृशादित्वादाचारे क्यङि सकारलोपे ‘अकृत्सार्व -' इति दीर्घे उन्मनायेत्यस्मात् क्त्वो ल्यपि, तो लोपे, उन्मनाम्येति रूपम् । अवगल्भशब्दाद् श्राचारेऽगल्भेति क्विबन्तात् क्त्वो ल्यपि रूपम् । अत्र उदित्यस्य श्रवेत्यस्य च उपसगं स्वरूपस्य अनपहृतत्वेन क्यङिक्विपि च विवक्षिते पृथक्कृततया तयोः क्त्वान्तेन समासे सति ल्यबुचितः । इह तु श्रोढायित्वेत्यत्र न तथेति व्यतिरेकदृष्टान्तोऽयम् । ज्ञापकस्य सजातीयत्वे प्रमाणं दर्शयति ज्ञापकस्येति । षा ं वार्तिकं दर्शयति उस्योमाविति । उसि, ओम् श्राङ् एषां द्वन्द्वः । षष्ठस्य प्रथमे पादे 'ओमाङोश्व' इति सूत्रे इदं वार्तिकं पठितम् तद्याचष्टे उस्योमाङोश्च परयोरिति । 'एडि पररूपम्' इत्यतः पररूपग्रहणानुवृत्तिं मत्वाह पररूपं नेति । उसि तावदुदाहरति औस्त्रीयदिति । उस्रामात्मन ऐच्छदित्यर्थे 'सुप अत्मनः-' इति क्यजन्ताल्लङि उत्रीयशब्दादङ्गात्प्रागाटि कृते 'उस्यपदान्तात्' इति पररूपं प्राप्तमनेन निषिध्यते । श्रर्थवद्ग्रहणपरिभाषा त्वनित्या, श्रस्मादेव भाष्योदाहरणात् । अन्यथा भिन्युरित्यादौ पररूपं न स्यात् श्रागमसहितस्य युस एवार्थवत्त्वादिति भावः ।
,
"
"
तेनेति । उत्रामिति । 'माहेयी सौरभेयी गौरुखा माता च श्रङ्गिणी' इत्यमरः ।
स्त्रीयदिति । क्यजन्तादुखाशब्दालङ अङ्गस्याटि च कृते उस्यपदान्तात्' इति पररूपं प्राप्तम्। न चानर्थकोऽयमुस् न प्रहीष्यत इति वाच्यम्, बिन्दुर्भिन्युरित्यादावप्युसोऽनर्थकत्वादागमसहितस्यैवार्थवत्त्वात् । तथा चायुरपुरेत्यादावेव स्यात् । एवं चायमेवाडागमस्य उसि परे प्रतिषेधोऽर्थवद्ग्रहणपरिभाषाया अत्राप्रवृत्तौ ज्ञापक इति स्थितम् । अतएव 'उस्य पदान्तात्' इत्यत्राऽपदान्तात् किं कोत्रेति भाष्ये प्रत्युदाहृतम् । श्रङ्कारयदिति । 'ओमाङोच' इति पररूपं प्राप्तम् । श्रडागमस्याङि परे उदाहरणमाह श्रौढीयदिति । यत्रादेशेनापहृतं तत्रापि यदि पृथक्कृतिस्तदा श्राङः परत्रादा भाग्यमित्याजागमस्याङि परे पररूपनिषेधो व्यः स्यात् । तथा च ज्ञापकस्य विशेषविषयत्वे प्रमाणमयमेव निषेध इति भावः । चशब्दं प्रयुआनः सूत्र