________________
प्रकरणम् ५७ ] बालमनोरमा-तत्वबोधिनीसहिता । [ ५२३
1
पदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते' इति । तेन मनःशब्दास्प्रागद् । स्वमनायत । उन्मनायते । उदमनायत । एवं च अवागस्भत अवागल्भष्टेत्यादावप्यवेत्यस्य पृथक्करणं बोध्यम् । ज्ञापकं च सजातीयविषयम् । तेन यत्रोपसर्गस्वरूपं सकलं श्रूयते न स्वादेशेनापहृतं तत्रैव पृथक्कृतिः । एवं च था ऊढ प्रोढः, स इवाचर्यं भोढायित्वा, अत्र उन्मनाय्य अवगम्य इतिवच क्रियायोगाभावात् समानाकारमित्युक्तम् । धातुसंज्ञाप्रयोजके इति । किबादाविति शेषः । पृथक् क्रियते इति । तथा च न तस्य धातुसंज्ञाप्रवेश इत्यर्थः । ततः किमित्यत आह तेनेति । सम् इत्यस्य धातुसज्ञा प्रवेशाभावेनेत्यर्थः । तथा च सुमनश्शब्दाद् आचारक्किपि विवक्षिते मनश्शब्दमात्रस्य धातुत्वात्ततो लबि मनश्शब्दस्यैवाङ्गत्वात्ततः प्रागेव अट् । न तु सुमनस् इति समुदायात्प्रागित्यर्थः । एतेन संप्रामयतेरेव सोपसर्गाद् नान्यस्मादित्यादि भाष्यं भृशादिभ्य इति सूत्रस्थं व्याख्यातमिति बोध्यम् । उन्मनायते इति । भृशादित्वात् क्यङि सलोपः । एवं चेति । एवमुक्तरीत्या 'आचारेऽवगल्भ -' इति क्विब्विधावपि श्रवेत्यस्य पृथक्करणाद् गल्भशब्दाप्रागेव अड् इत्यर्थः । ननु आ ऊढ ओढः, 'कुगति-' इति समासः । श्रस्माद् भृशादित्वात् क्यङि प्रोढायते इत्यादि रूपम् । अत्रापि आडो धातुसंज्ञाप्रवेशो न स्यात् । तत्र यद्यपि लङि ऊढशब्दाद्वा आडो वा प्राग् टि न रूपे विशेषः । उभयथापि प्रौढायतेत्येव रूपं सिद्धमेव । तथापि प्रोढायेति क्यङन्तात् क्त्वाप्रत्यये तो लोपे मोढायित्वेत्येवेष्यते, अत्र क्यङि चिकीर्षिते उक्तरीत्या पृथक्करणे पृथक्कृतस्याः 'कुगतिप्रादयः' इति त्वाप्रत्ययान्तेन समासे सति 'समासेऽनञ्पूर्वे त्वो ल्यप्' इति ल्यप् स्यादित्यत आह ज्ञापकं च सजातीयविषयमिति । तदेवोपपादयति तेनेति । चुरादौ ' संग्राम युद्धे' इति सम्ग्रहणस्य उक्तार्थे पृथक्करणे ज्ञापकस्य सजातीयविषयकत्वाश्रयणेन यत्र उपसर्गखरूपम् श्रविकृतं श्रूयते नत्वेकादेशेनापहृतं तत्रैव उपसर्गस्य पृथक्कृतिरिति विज्ञायते इत्यर्थः, संग्रामे सम्ग्रहणस्य ज्ञापकस्य एवंविधत्वादिति भावः । ततः किमित्यत श्राह एवं चेति । ओढायित्वेति । श्रोढ - सर्गो नेत्यभिप्रेत्याह समानाकारमिति । पूर्वपदमिति । तच्च समास एव संभवति । तेन श्रान्दोलयित्वा प्रेङ्खोलयित्वेत्यादौ आ-प्रेत्यादीनां न पृथक्करणम् । अन्यथा तेषां क्त्वाप्रत्ययान्तेन समासे सति ल्यप् स्यादिति भावः । पृथक्करणस्य फलमाह तेनेति । सुमिमनायिषति । उन्मिमनायिषतीत्यादौ मनश्शब्दस्य द्विर्वचनं पृथक्करणस्य फलमिति बोध्यम् । श्रवागल्भतेति । 'आचारेऽवगल्भ -' इति विविधौ श्रवेत्यस्य पृथक्करणाद् गल्भशब्दात्प्रागट् । किं तत्साजात्यमित्यत आह