________________
५२२ ] सिद्धान्तकौमुदी। सिद्धः । तत्संनियोगेनानुबन्ध प्रासज्यते । युद्धे योऽयं ग्रामद इति सामर्थ्यात्संग्रामशन्दे लम्धे विशिष्टपाठो ज्ञापयति-'उपसर्ग समानाकारं पूर्वइति पठ्यते इति । ततश्च कचित् सोपसर्गपाठबलादन्यस्मार, सोपसर्गादाचारकिपि उपसर्गस्य न धातुसंज्ञाप्रवेश इति विज्ञायते इत्यर्थः । ननु चुरादी संग्रामेति समस्तो धातुः, न तु सोपसर्गो प्रामशब्दः। एवं चाम्य प्रातिपदि कत्वाभावात् स्टेपसर्गात् क्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यत्र कथमिदं गमक मित्यत आह नत्र संग्राम इति प्रातिपदिकमिति । 'प्रसे। च' इत्यौणादिके म् न् प्रत्यये निष्पन्नस्य पामशब्दस्य 'कृत्तद्धित-' इति प्रातिपदिकत्वम् । अव्युत्पत्तिपक्षे 'अर्थवदधातुः-' इति प्रातिपदिकत्वमित्यर्थः । ननु चुरादावस्य पाठो धात्वधिकारविहितगारादिकाणजथः । एवं च प्रातिपदिकत्वेन चुरादौ तस्य पाठो व्यर्थ इत्यत आह तस्मादिति । तस्मात् संग्राम इति प्रातिपदिकात् चौरादिकणिजसंभवेऽपि 'तत्काति-' इत्यर्थे णिच सिद्ध इत्यर्थः । ननु 'तत्करोति-' इत्यनेनैव संग्रामशब्दात् प्रातिपदिकारिणच्मिद्धेः किमर्थमिह चुरादौ तस्य पाठ इत्यत आह तत्संनियोगेनेति । णिच्सनियोगेन अकारस्य इत्संज्ञकस्य अनुदात्तेत्त्वार्थकस्य आसञ्जनार्थ इत्यर्थः । न च मकारादकारस्य इत्संज्ञकत्वे अल्लोपस्य णिनिमित्तकत्वाभावादससंग्रामत इत्यत्र 'सो चड्युपधाया:-' इत्युपधाह्रस्वः स्यादिति वाच्यम् , संग्रामेत्ययं हि कथादित्वाददन्तः । तस्मादकारो भिन्न एव अनुबन्धत्वेनासज्यते इत्यर्थः । एवं च णौ अतो लोग सति णावग्लोपि. त्वानोपधाहस्वः । कथादित्वलक्षणादन्तत्वलाभायैवास्य चुरादौ पार इति भावः । ननु चुरादौ संप्रामशब्दस्य 'तत्करोति-' इति णिचि परे अस्त्वनुबन्धासाः। तथापि आचारविपि उपसर्गस्य न धातुसंज्ञा प्रवेश इत्यत्र कथमस्य ज्ञापक नेत्यत आह युद्ध इति । सामर्थ्यादिति। प्राम युद्धे इत्येतावतैव संग्रामशब्दो लभ्यते, केवलस्य प्रामशब्दस्य युद्धे प्रयोगाभावादित्यर्थः । विशिष्टपाठ इति । संग्रामशब्दपाठ इत्यर्थः । ज्ञाप्यमर्थमाह समानाकारमिति । संग्रामशब्दे युद्ध वाचिनि समित्यस्य च' इत्यौणादिकेन मन्प्रत्ययान्ततया निष्पादितत्वात् । एवं च वदयमाणज्ञापकं संगच्छत इति भावः। अनुबन्ध इति । संग्रामेति मशब्दाकार द् भिन्नोऽकारोऽनुबन्ध इत्यर्थः । तथा च अत्र 'अतो गुणे' इति पररूपं ज्ञेयम् । यदि तु मकारादकारोऽनुबन्धः स्यात्तर्हि अससंग्रामतेत्यत्र ‘णौ चङि-' इत्युपधास्वः स्यात् । णिचसन्नियोगेनानुबन्धकरणे तु अनुदात्तत्त्वलक्षणस्यात्मनेपदस्याप्रवृ त्या 'णिचश्च' इति कर्तृगामिनि क्रियाफल एवात्मनेपदं स्यान्न तु परगामिनीति विकः । सामर्थ्यादिति । केवलस्य प्रामशब्दस्य युद्धे प्रयोगाभावादिति भावः क्रियायोगाभावादुप