________________
प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५२१ रूपमाह । स्व इव सस्वौ, सस्व । यत्तु स्वामास स्वांचकार इति तदनाकरमेव । २६६७ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः । (३-१-१२) अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्याद्धलन्तानामेषो लोपश्च । अभृशो भृशो भवति भृशायते । अच्वेः इति पर्युदासबलाद् अभूततद्भावे इति लब्धम् । तेनेह न-क्व दिवा भृशा भवन्ति । ये रात्री भृशा नक्षत्रादयस्ते दिवा क भवन्तीत्यर्थः । सुमनस्, अस्य सलोपः, सुमनायते । चुरादौ 'संग्राम युद्धे' इति पठ्यते । तत्र संग्राम इति प्रातिपदिकम् । तस्मात् 'तस्करोति-' इति णिच इत्यत्रापि लिटि 'अत प्रादेः' इति दीर्घ बाधित्वा अतो लोपः स्यादिति वाच्यम् , रायल्लोपाविति पूर्वविप्रतिषेधलभ्यः अतो लोपः संनिहितमेव 'अकृत्सार्व-' इति दीर्घ बाधते, न तु 'अत आदेः' इति दीर्घमपि, 'अनन्तरस्य-' इति न्यायादिति माधवाशय इत्याहुः। तदनाकरमेवेति । अनेकाच्त्वाभावादिति भावः । वस्तुतस्तु प्रत्ययप्रहणमपनीयेत्यस्य भाष्ये अदर्शनात् प्रत्ययान्तत्वादाम्भवत्येवेति युक्तमेवेत्यनुपदमेवोक्तम् । भृशादिभ्यो । भवनं भूः, भावे क्विप् , तदाह भवत्यर्थे इति । भवने इत्यर्थः। क्यङ् स्यादिति । 'कर्तुः क्यङ् सलोपश्च' इत्यतस्तदनुवृत्तेरिति भावः । हलन्तानामेषामिति । भृशादिषु ये हलन्तास्तेषां लोपः क्यङ् चेत्यर्थः। ननु 'अभूततद्भावे' इति कुतो लब्धमित्यत आह अच्वेरिति पर्युदासबलादिति । अभूततद्भावग्रहणमिति वार्तिकमेतल्लब्धार्थकथनपरमिति भावः । ये रात्रौ भृशा इति । प्रकाशातिशयवन्त इत्यर्थः । भृशादिषु हलन्तमुदाहरति सुमनस् इति । सुमनायते इति । असुमनाः सुमना भवतीत्यर्थः । यद्यपि स्त्रियामित्यधिकारे 'अप्सुमनस्समासिकतावर्षाणां बहुत्वं च' इति लिङ्गानुशासनसूत्रे सुमनश्शब्दस्य नित्यं बहुवचनं विहितम् , तथापि तद्देवादिपर्यायरूढविषयम् । सु शोभनं मनो यस्येति सुमनाः इति बहुव्रीहिौगिक इति भावः । सुमनायते इति क्यङि सलोपे 'अकृत्सार्व-' इति दीर्घः । ननु लछि मनश्शब्दात्प्रागटि 'स्वमनायते' इति वक्ष्यमाणमनुपपन्नम्, अङ्गस्य अड्विधानात् सुमनश्शब्दस्य समस्तस्यैव लडं प्रत्यनत्वात् 'प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणम्' इति न्यायादित्याशङ्कयाह चुरादौ 'संग्राम युद्धे' विरोध इति। अनाकरमेवेति । अनेकाच्वाभावादित्यर्थः । अन्ये तु भाष्ये प्रत्ययग्रहणमपनीयेत्य नुक्कत्वात्प्रत्ययान्ततया स्वामासेत्यादि रूपं शुद्धमेवेत्याहुः। भृशादिभ्यो । भुवीत्येतद्वयाचष्टे भवत्यर्थ इति । भृश, शीघ्र, मन्द, पण्डित, दुर्मनस्, सुमनस् , उन्मनस् , इत्यादयो भृशादयः । क्व दिवेत्यादि भाष्यकारीयं प्रत्युदाहरणं व्याचष्टे ये रात्रावित्यादिना । प्रातिपदिकमिति । न त्वयं धातुः, 'प्रसेरा