________________
५२० ]
सिद्धान्तकौमुदी। [नामधातुमाधवः । अत्र उठि द्यवतीत्युचितम् । क इव कति । चक इति हरदत्तः । माधवस्तु 'एयल्लोपो-' इति वचनारणलि वृद्धिं बाधित्वा अतो नोपान् चक इति त्यादिना । इदामतीति । 'हलन्तेभ्य प्राचारकिव् नास्ति' इति 'हम्बनद्याप:-' इति सूत्रभाष्ये स्पष्टमिति शब्देन्दुशेखरे स्थितम् । पथीनतीति । पथिन्शब्दात् विपि 'अनुनासिकस्य-' इति इकारस्य दीर्घः । इदं तु माधवानुरोधेन क्विबभ्युपगमेऽपि तिपि पथेनतीत्येव युक्तम् , 'इन्हन्-' इति नियमेन दीर्घा प्राप्तेः । न च नियमस्य सजातीयापेक्षत्वात् सुबानन्तर्ये एवायं नियमो नान्यत्रेति वाच्यम् तथा सति वृत्रघ्नः स्त्री वृत्रन्नीत्यत्रापि अल्लोपं बाधित्वा अन्तरङ्गत्वाद् 'अनुनासिकस्म-' इत्युपधादीर्घापत्तेरित्याहुः। देवतीतीति । दिवशब्दाचारविबन्तात् शपि लघूपधगुणः । 'नः क्ये' इति नियमेन अपदान्तत्वाद् 'दिव उत्' इत्युत्त्वं नेति भावः । अत्र ऊठीति। दिवशब्दात् क्विपि 'च्छ्वोः-' इति वकारस्य ऊरि कृते लघूपधगुणं बाधित्वा परत्वादिकारस्य यणि द्यूशब्दात् शपि ऊकारस्य पुणे अवादेशे च यवतीति रूपमुचितमित्यर्थः । चकाविति । कशब्दात् बिन्तालिटि णलि द्वित्वे चुत्वे चक अ इति स्थिते ककारादकारस्य अतो लोपात्पर वाद् वृद्धौ आकारे 'आत औ णलः' इत्यौत्त्वे वृद्धिरेकादेश इति भावः। माधवस्विति । चक अ इति स्थिते पूर्वविप्रतिषेधाद् वृद्धिं बाधित्वा ककारादकारस्य अतो लोपे कृते णलोऽकारेण सह चक इति रूपमित्यर्थः । नवं सति अ इवाचरति अति औ अतु: नियमाद्दीर्घाभावे गुणे सति पथेनतीत्येव रूपमित्यन्ये । येषामिन्नाद नां शावुपधादीघः क्रियते परमदण्डीनीत्यादौ तेषामेव दण्डिन्वृत्रहन्नादीनाम् ‘इन्हन्- इति नियमो न तु पथ्यादीनाम् । तेषां तु शौ परतः सुपन्थानीत्यादावुपधादीर्घप्रवृत्त विपि 'इतोऽत्सर्व. नामस्थाने' इत्यत्त्वे कृते 'इन्हन् -' इति नियमाप्रवृत्तेः । अन्यथा पन्थानौ पन्थान इति न सिध्येत् , तथा च पथीनतीत्यायेव साध्वित्यपरे । देवतीति माधव इति । अपदान्तत्वाद्दिव उन्न । अत्रेति । लघूपधगुणं बाधित्वान्तरनत्वादूठि यण, तस्मिकर्तव्ये बहिरङ्गस्याप्यूठो नासिद्धत्वम्, 'नाजानन्तर्ये-' इति निषेधात् । न च वार्णादाङ्गस्य बलीयस्त्वाद्यणं बाधित्वा लघूपधगुणः स्यादिति वाच्यम् , व्याश्रयत्वात् । अत एव सिवरौणादिके नप्रत्यये स्योनशब्दः सिध्यतीति भावः । क इवेति । को ब्रह्मा । चक इतीति । नन्वेवम् औ अतुरित्यत्रापि 'अत श्रादेः' इति दीर्घ बाधित्वा 'अतो लोपः' एव स्यादिति चेत् । अत्राहुः–'रायल्लोपौ-' इति वचनेन जायमानो योऽतो लोपः स तु सन्निहितमेव 'अकृत्सार्व-' इति दीर्घ बाधते, 'अनन्तरम्य-' इति न्यायात् , न तु व्यवहितमपि 'अत श्रादेः' इति दीर्घमिति माधवाशयानानेन तद्प्रन्थस्य