________________
प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५१७ आदेः' (सू २२४८) इति दीर्घः, पल भो, वृद्धिः। अतुसादिषु तु 'मातो लोप इटि च' ( स २३७२) इस्यालोपः । मालेवाचरति मालाति । लिङ्गबाधित्वा पररूपमिति भावः । अत आदेरिति । न च परत्वान्नित्यत्वादपवादत्वाच 'अतो गुणे' इत्यस्मात्प्राग् 'अत आदेः' इत्यस्य प्रवृत्तिरिति वाच्यम्, तस्य बहिरङ्गत्वाद् 'अत आदेः' इत्यस्यापवादत्वेऽपि अानर्देत्यत्र हलादिशेषात्प्रागेव परत्वाद् ‘अत आदेः' इत्यस्य चरितार्थत्वेन बाधकत्वासंभवाद् 'अपवादोऽपि यद्यन्यत्र चरितार्थस्तयन्तरङ्गेण बाध्यते' इत्युक्तरित्यन्यत्र विस्तरः । यद्यप्यत्र प्रक्रियाव्युत्क्रमे फलविशेषो नास्ति, तथापि न्याय्यत्वादेवमुक्तम् । णल औ इति । पररूपे दीर्घ च आ अ इति स्थिते 'आत औ णलः' इत्यौत्वमिति भावः । वृद्धिरिति । आ श्री इति स्थिते 'वृद्धिरेचि' इति वृद्धिरित्यर्थः । तथा च ौ इति रूपं परिनिष्ठितम् । अतुसादिष्विति । अतुस् , अ उस्, इति स्थिते द्वित्वे पररूपे 'श्रत प्रादेः' इति दीधैं प्रातो लोप इत्यर्थः । अतुः उः इति प्रत्ययमानं शिष्यते । थलि इटि द्वित्वे दीर्घ आल्लोपे, इथ अथुः श्र। औ इव इम । वस्तुतस्तु 'कास्यनेकाज्ग्रहणम्-' इति वार्तिकव्याख्यावसरे प्रत्ययग्रहणमपनीयेति भाष्ये नोक्तम् । कासेश्च प्रत्ययान्ताच आमिति लभ्यते । अत एव प्राचारेऽवगल्भक्लीबहोडेभ्यः-' इति वार्तिके अवगल्भांचके इत्यादौ अन्त्यवर्णस्यानुवन्धत्वेन एकाच्वेऽपि 'कास्प्रत्ययात्-' इत्यामित्युक्तं भाष्ये इति शब्देन्दुशेखरे इति चेत् । मैवम् , तस्याः समानाश्रये कारश्चकारेत्यादी प्रवृत्तिस्वीकाराम तु व्याश्रयेऽपि । न च परत्वानित्यत्वाच्च 'अत श्रादेः' इत्यनेनैव प्रथमं भाव्यमिति वाच्यम् , तस्य बहिरङ्गत्वेनासिद्धत्वात् । न चापवादत्वाद् 'अत आदेः' इत्यनेन भाव्यमिति वाच्यम् , अपवादो यद्यन्यत्र चरितार्थस्तार्ह अन्तरङ्गेण बाध्यत इत्युक्त्वात् । आनर्देत्यादौ तस्य चरितार्थत्वात् । तत्र हलादिःशेषात्प्रागेव परत्वाद् 'अत आदेः-' इत्यस्य प्रवृत्तेः। न च नित्यत्वाद्धलादिः शेष एव प्रथमं स्यादिति वाच्यम् , नित्यत्वस्य 'अत आदेः' इत्यत्रापि तुल्यत्वात् । एतच्च मनोरमानुसारेणोकम् । केचिदत्र वदन्ति । अतो गुणे' इति पररूपापवादस्य 'श्रत आदेः' इत्यस्य आनर्देत्यादी चरितार्थत्वादन्तरजमेव भवतीति मनोरमोक्तं चिन्त्यम् । स्वविषयमध्ये एकत्रोदाहरणे चरितार्थस्योदाहरणान्तरेऽपि प्रवृत्त्यभ्युपगमात् । न हि गोद इत्यत्र 'आतोऽनुपसर्गे कः' इति चरितार्थमिति गोप इत्यादौ न प्रवर्तते । तस्मादणं बाधित्वा कप्रत्ययो यथा खविषये सर्वत्र प्रवर्तते तथेहापि प्रवर्तत इति। तदपरे न चमन्ते । गोदगोपादौ सर्वत्राणः कस्य च प्राप्तिसंभवे विनिगमनाविरहादणं बाधित्वा कप्रत्यय एव भवति । प्रकृते त्वानर्देत्यादौ हलादिःशेषात्प्राग 'अतो गुणे' इत्यस्य प्राप्त्यभावाद्वैषम्यमस्तीति ।