________________
सिद्धान्तकौमुदी। [नामधातुक्विन्या वक्तव्यः' ( वा १७२२)। पूर्ववार्तिकं तु अनुबन्धासञ्जनार्थम् । तन्त्र किबनूयते । प्रातिपदिकग्रहणादिह सुप इति न संबध्यते । तेन पदकार्य न । कृष्ण इवाचरति कृष्णति । 'अतो गुणे' (सू १११) इति शपा सह पररूपम् । अ इवाचरति अति अतः श्रन्ति । प्रत्ययग्रहणमपनीय अनेकाच इत्युक्तर्नाम् । श्री अतुः उः, द्विस्वम्, 'श्रतो गुणे' (सू १६१) 'प्रत इति । आचारे इति शेषः । नन्वनेनैव वार्तिकेन सिद्धे 'आचारे वगल्भ-' इति वार्तिकं व्यर्थमित्यत आह पूर्ववार्तिकं त्विति । अन्त्यवर्णस्य इ. संज्ञासि द्वयर्थमित्यर्थः । तर्हि तत्र क्विन्ग्रहणं व्यर्थमित्यत आह तत्र विवनूद्यत इति । तत्संनियोगेनानुबन्धासङ्गार्थमित्यर्थः। पदकार्य नेति । राजानतीत्यादौ नलोपादिकं नेत्यर्थः । अन्यथा अन्तर्वतिविभक्त्या पदत्वान्नलोपादिकं स्यादिति भावः । पररूपमिति । कृष्णशब्दात् विबन्ताल्लडादौ शपि 'अतो गुणे' इति पररूपमिः पर्थः । कृष्णांचकार । कृष्णिता । कृष्णिष्यति । कृष्णतु । अकृष्णत् । कृष्णेत् । कृष्ण यात् । अतो लोपात्परत्वाद् 'अकृत्सार्व-' इति दीर्घः। पूर्वविप्रतिषेधस्य विहित वादतो लोप इत्यन्थे । अइवेति । अः विष्णुः । स इवेत्यर्थः । अतीति । शपा पररूपम् । असि अथः अथ । श्रामि भावः आमः । क्विप्प्रत्ययान्तत्वाल्लिटि 'कास्प्रययात्--' इत्या प्रत्ययमाशङ्कयाह प्रत्ययग्रहणमपनीयेति । औ अतुः उः इति सिद्धरूपप्रदर्शनम् । तत्र प्रक्रियां दर्शयति द्वित्वमिति । लि द्विवचनेऽचि' इति लोपस्य निषेध इति भावः । अतो गुणे इति । द्वित्वे कृते अ अ अ इति स्थिते अन्तरङ्गत्वादतो लोपं इत्यादिप्रयोगसिद्धावपि अवगल्भादिषूत्तरवार्तिकेन क्विपि सत्यवम् लभतीत्याद्यनिष्टप्रयोग: स्यात्तद्वारणार्थम् 'आचारेऽवगल्भ' इति वार्तिकारम्भस्यावश्यक या सामर्थ्यस्योपक्षीयत्वाद् 'भूतपूर्वादप्यनेकाच आम्' इत्येतदप्ययुक्तमिति चेत् । मान्यम् । अत्र रायमाशयः-'सर्वप्रातिपदिकभ्यः-' इति वार्तिके वाग्रहणेन व्यवस्थितविभाषाश्रीयते । तथा च अवगल्भक्लीबहोडेभ्यः किपोऽभावादनिष्टप्रयोगो न भविष्यतीति स्वीकृते सामथ्र्य नोपक्षीणमिति दिक् । पदकार्य नेति । सवर्णदी? यद्यपि पदमात्रकार्य न भवति, तथापि पदस्य जायमानं कार्य नेत्यत्र तात्पर्य बोध्यम् । तनोतीति तत् , स इव पाररति ततति, अत्र जश्त्वं न । त्वगिव आचरति त्वचति, अन कुत्वं नेत्यादापि बोध्यम् । द्वित्वमिति । अणल् इति स्थिते 'द्विर्वचनेऽचि' ति निषेधादतो लोगो न भवतीति भावः। 'अतो गुणे' इति द्वित्वे कृतेऽप्यतो लोपो न भवति, अन्तर णानेन बाधितत्वादिति भावः । यद्यप्यत्र फले विशेषो नाति तथापि शान प्रापि क्रममनुरुध्योक्तम् । यद्यप्येवं 'वार्णादा बलीयः' इति परिभा/याऽतो लोप एवोचित