________________
प्रकरणम् ५७] बालमनोरमा-तत्त्वबोधिनीसहिता। [५१५ केवलानामेवाचारेऽपि वृत्तिसंभवाद्, धातूनामनेकार्थत्वात् । अवगल्भाचक्रे । क्रीबांचके । होडांचके । वार्तिकेऽवेत्युपसर्गविशिष्टपात्केवलादुपसर्गान्तरवि. शिष्टाच क्यडेवेति माधवादयः । तङ् नेति तूचितम् । 'सर्वप्रातिपदिकेभ्यः पूर्वगत्या अनेकाच्वाश्रयणं ज्ञापयतीत्यर्थः । नन्वनुदात्तत्वानुनासिकत्वप्रतिज्ञानस्यात्मनेपदसिद्धावुपक्षीणत्वात् कथमुक्कज्ञापकतेत्याशङ्कय निराकरोति न चावगल्भते इत्या. दिसिद्धिस्तत्फलमिति । कुत इत्यत आह केवलानामिति । अच्प्रत्ययरहितानां धातुपाठसिद्धानामनुदा ततामेव गल्भादिधातूनामवगल्भ इवाचरतीत्याद्यर्थेषु वृत्तिसंभवात्। तच्च कुत इत्यत आह धातूनामनेकार्थत्वादिति । एवं च 'आचारेऽवगल्भ-' इति विविधानमनुबन्धासजनार्थ सद् भूतपूर्वगत्या अनेकाच्वाश्रयणं ज्ञापयतीति सिद्धम् । न च 'सर्वप्रातिपदिकेभ्यः--' इति क्विपि अवगल्भतीत्यादिवारणाय अनुबन्धासञ्जनमुपक्षीण. मिति कथं तस्य उक्तज्ञापकतेति वाच्यम् , 'सर्वप्रातिपदिकेभ्यः-' इति वार्तिकेन विपि तथा प्रयोगे इष्टापत्तेः भूतपूर्वाश्रयणपरभाष्यप्रामाण्येन 'सर्वप्रातिपदिकेभ्यः-' इति वार्तिकस्य अवगल्भादिभ्यः अप्रवृत्तिविज्ञानाद्वेत्यास्ता तावत् । 'आचारेऽवगल्भ-' इत्यत्र अवेत्यस्य प्रयोजनमाह अवेत्युपसर्गेति । केवलादिति । उपसर्गविहीनाद्गल्भशब्दादित्यर्थः । उपसर्गान्तरेति । प्रगल्भानुगल्भादिशब्दादित्यर्थः । क्यडेवेति । न तु विबित्यर्थः । माधवादय इत्यस्वरसोद्धावनम् । तद्वीजमाह तङ नेति तूचितमिति । केवलादुपसर्गान्तरविशिष्टाच गल्भशब्दात् प्रगल्भादिशब्दाच अनेन विबभावेऽपि 'सर्वप्रातिपदिकेभ्यः' इति वार्तिकेन कि निर्बाधः। परन्तु अवपूर्वत्व एवानुबन्धासजनादात्मनेपदमेव तत्र नेति वक्तुमुचितमित्यर्थः । सर्वप्रातिपदिकेभ्य इत्यादि सिध्यति । माधवादय इति । केचित्तेषामाशयमाहुः-'आचारेऽवगल्भ-' इत्यत्र सुप इत्यनुवर्तते। तथा च केवलादुपसर्गान्तरविशिष्टाद् गल्भप्रगल्भादिसुबन्तात्क्यव, न तु विप् । तइ नेति तूचितमिति । उत्तरदार्तिकेन प्रातिपदिकमात्राक्किए विधीयत इति एतेभ्योऽपि त्रिभ्यः विपि सिद्धे तत्सन्नियोगेनानुदात्तत्वानुनासिकत्वमात्रमच्प्रत्ययस्य 'श्राचारेऽवगल्भ-' इत्यवगल्भादिषु प्रतिज्ञायते लाघवात् । अन्यत्र तु गल्भप्रगल्भादिप्रातिपदिकेषु विपि परस्मैपदमेव भवति, न तु तडिति भावः । नन्वेवम् 'श्राचारेऽवगल्भ-' इत्यत्र वाग्रहणात् क्यङमनुवर्त्य अवगल्भादिप्रातिपदिकेभ्यः क्यविधानेऽप्यन्यत्र सुबन्तादेव क्यङिति क्यङो विषय एव नास्ति । तथा च केवलादुपसर्गान्तरविशिष्टाच क्याप्ययुक्त इति चेत् । अत्र वदन्ति-प्रातिपदिकेभ्यः विप सुबन्तेभ्यः क्यलिति विषयभेदेनापि गल्भति गल्भायते प्रगल्भति प्रगल्भायते इत्यादि सिध्यत्येवेति । स्यादेतत्-गल्भ धाट्ये इत्यादीनामनुदात्तत्वादवगल्भते