________________
सिवान्तकौमुदी। [ नामधातुगल्मकीवहोडेम्बः किम्वा (वा १०२१)। वामहयात क्यापि । अवगल्भावयः पचायजन्ताः। किसंनियोगेनानुदासत्वमनुनासिकत्वं चाम्प्रत्ययस्य प्रतिज्ञायते, तेन छ । अवगरमते । जीवते । होडते । भूतपूर्वादप्यनेकाच पाम्, एतद्वातिकारम्भसामन्यात् । न च भवगरमते इत्यादिसिद्धिस्तत्फलम् । किन्या' इति वार्तिकम् । उपमानादिस्यनुवर्तते। 'धातोः कर्मणः-' इत्यतो वाग्रहगस्यास्मिन्प्रकरणे अनुवृत्त्यैव सिद्ध वाग्रहणं व्यर्थमित्यत आह वाग्रहणात् क्यकपीति । अन्यथा विशेषविहितत्वात् किपा क्यो बाधः स्यादिति भावः । तथा चात्र वाशब्दो विकल्पार्षक इति फलितम् । अत्र सुप इति नानुवर्तते । प्रातिपदिकात् क्योऽप्राप्तौ वाग्रहणात् समुचीयते इति केचित् । अवगल्भादय इति । गल्भ धाष्ये' अवपूर्वः, 'कीब अधाष्ठ्ये होड अनादरे' एभ्यः पचायचि अवगल्भादिशब्दासयो निष्पना इत्यर्थः । तथा च अवगल्म इवाचरति, क्रीव इवाचरति, होड इवाचरतीत्यर्थे अवगल्भादिशब्देभ्यः विप्क्याविति स्थितम् । अवगल्भते इत्यात्मनेपदलाभायाह क्विसंनियोगेनेति । अन्त्यस्य अकारस्य अनुदात्तत्वमनुनासिकत्वं चात्र प्रतिज्ञायते । ततश्च तस्य इत्संज्ञायां लोपे अनुदात्तेत्त्वादात्मने पदं लभ्यते, तदाह तेन तङिति। अवगल्भते इति । किपि भकारादकारस्य लोपे हलन्ताल्लडादौ तडि शबिति भावः । ननु अवगल्भांचके, क्लीवांचके, होमंचके इत्यत्र कथमाम् ? अन्त्यस्य च इत्संज्ञालो. पाभ्यामपहारेण धातूनामेकाच्त्वेन 'कास्यनेकाच् -' इत्यस्याप्रवृत्तेः । न च अवगल्भ इत्यस्य विबन्तस्य धातोरनेकाकत्वमस्तीति वाच्यम् , 'उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते' इत्यनुपदमेव वक्ष्यमाणत्वादित्यत आह भूतपूर्वादपीति । किबुत्पत्तेः प्राक्तनमनेकाच्वं भूतपूर्वगत्या आश्रि
सेत्यर्थः । भूतपूर्वगत्याश्रयणे प्रमाणमाह एतद्वार्तिकेति । 'सर्वप्रातिपदिकेभ्यः क्विन्वा-' इति वक्ष्यमाणवार्तिकादेव अवगल्भते, अवजगल्भे इत्यादिसिद्धौ पुनरेभ्यः किब्विधानं तत्संनियोगेन अन्त्यवर्णस्य अनुदात्तत्वानुनासिकत्वप्रतिज्ञानार्थ सद् भूतएवं पञ्चमीयते । स्रौनीयते । सुकेशीयते। ब्राह्मणीयत इत्यादि । आचारेऽवगल्भ । गल्भ धार्थे। कीड़ अधाष्टथे । होड अनादरे । क्यङपीति । अपिशब्दाद्वाक्यम् । तत्तु 'सर्वप्रातिपदिकेभ्यः-' इत्यत्र वाग्रहणाल्लभ्यते इत्याहुः । किप्सन्नियोगेनेत्यादि । तेन क्यसभियोगेनानुदात्तत्वानुनासिकत्वयोरभावादित्संज्ञालोपौ न स्त इति 'अकृत्सार्व-' इति दीघे सति अवगल्भायते क्लीबायत इत्यादि भवति । तेन तिित । आत्मनेपदमित्यर्थः। तथा च अवगल्भमानः क्लीबमानः