________________
प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५१३ पवीमृदूयते । 'न कोपधायाः' (सू ८३८)। पाचिकायते । 'प्राचारेऽवत्यर्थः । विद्वायते, विद्वस्यते इति । विद्वानिवाचरतीत्यर्थः । विद्वच्छब्दात् क्यङि सलोपविकल्पः । त्वद्यते । मद्यते इति । त्वमिव अहमिव आचरतीत्यर्थः । युष्मदस्मच्छब्दात् क्यति 'प्रत्ययोत्तरपदयोश्च' इति मपर्यन्तस्य त्वमौ । युष्मद्यते । अस्मद्यते इति । न्यूयमिव वयमिव आचरतीत्यर्थः । त्वमावेकवचेन' इत्यस्मात् 'प्रत्ययोत्तरपदयोश्च' इति सूत्रे एकवचने इत्यनुवृत्तेरेकत्वविशिष्टार्थवृत्तित्वे सत्येव युष्मदस्मदोस्त्वमाविति भावः। कुमार्यादिशब्दात् क्यडि पुंवत्त्वं स्मारयति क्यङ्मानिनोश्चेति । कुमारायते इति । पुंवत्त्वेन डोषो निवृत्तौ दीर्घः । हरितायते इति । हरिणीशब्दात् क्यङि पुंवत्त्वेन 'वर्णादनुदात्तात्'-, इति नत्वस्य छीषश्च निवृत्तौ दीर्घः । गुरूयते इति । गुर्वीशब्दात् क्यलि डीषो निवृत्तौ दीघः । सपत्नायते इति । शत्रुपर्यायात् सपत्नशब्दात् शारिवादित्वेन छीनन्तात् पुंवत्वेन डीनो निवृत्तौ दीर्घ इति भावः । सपतीयते इति । समानः पतिः स्वामी यस्या इति बहुव्रीहौ सपतिशब्दस्य नत्वे ङीपि च निष्पन्नात् सपत्नीशब्दात् क्यङि पुंवत्त्वेन डीब्नत्वयोनि मृत्तौ दीर्घ इति भावः । सपत्नीयते इति । विवाहनिबन्धनं पतिशब्दमाश्रित्य समानः पतिः यस्या इति बहुव्रीहौ सपत्नीशब्दस्य नित्यस्त्रीलिङ्गत्वान्न पुंवत्त्वमिति भावः । युवायते इति । युवतिशब्दात् क्यङि पुंवत्त्वे तिप्रत्ययस्य निवृतौ नलोपे दीर्घ इति भावः। वयोवाचिनां जातिकार्य वैकल्पिकभिति 'जातेरस्त्रीविषयात्-' इत्यत्र भाष्ये स्पष्टम् । एतेन 'जातेश्च' इति निषेधादिह पुंवत्त्वं दुर्लभमित्यपास्तमिति शब्देन्दुशेखरे स्थितम् । पदवीमृदूयते इति । इह पूर्वपदस्य क्यपरकत्वाभावान्न पुंवत्त्वम् । ननु पाचिकेवाचरति पाचिकायते इत्यत्रापि 'क्यङ्मानिनोश्च' इति पुंवत्त्वेन टापः 'प्रत्ययस्थात्-' इति इत्त्वस्य च निवृत्तौ पाचकायते इति स्यादित्यत आह न कोपधाया इति । 'आचारेऽवगल्भक्लीबहोडेभ्यः विशेषनिमित्तकेन पतिशब्देन समासे सति नित्यस्त्रीत्वान्न पुंवत् । युवायत इति । २ च याप्सूत्रे भाष्ये युवतितरेत्युदाहरणाद् यौवनं जातिरिति 'जातेश्च' इति निषेधे युक्तीयत इत्युदाहरणमिहोचितमिति वाच्यम्, वयसोऽनित्यत्वेनाजातित्वात् । अन्यथा युवजानिरिति “प्रचः परस्मिन्-' इति सूत्रस्थभाष्यग्रन्थो विरुध्येत । युवतितरेति भाध्यस्य तु का गतिरिति चेत् । अत्राहुः-'तसिलादिषु-' इति मुंवद्भावे प्राप्ते भाष्यनिर्देशादेव न पुंवदिति । युवतीशब्दस्य तु तरपि 'घरूप-' इति ह्रखे युवतितरेति भवत्येव । पदवीमृदयत इति । पूर्वपदस्य क्यपरत्वाभावान्न पुंवत् । पाचिकायत इति । पुंवद्भावे सति कात्पूर्वस्येत्वं न श्रूयतेति भावः ।