________________
५१२] . सिद्धान्तकौमुदी। [नामधातुमानाकर्तुः सुबन्तादाचारे क्यङ् वा स्यात् , सान्तस्य तु कवाचकस्य लोपो वा स्यात् । क्यङ् वेत्युक्तः पते वाक्यम् । सान्तस्य लोपस्तु क्य संनियोगशिष्टः । स च व्यवस्थितः । 'प्रोजसोऽप्सरसो नियमितरेषां विभाषया (वा १७१६-२०)। कृष्ण इवाचरति कृष्णायते । भोजश्शन्दो वृत्तिविषये द्विति, श्रोजायते । अप्सरायते । यशायते, यशस्यते । विद्वायते, विद्वस्यते । स्वयते । मद्यते । अने. कार्यस्वे तु युष्मद्यते। अस्मद्यते । 'क्यङ्मानिनोश्च' (स.८३७)। कुमारीवाचरति कुमारायते । हरिणीवाचरति हरितायते । गुर्वीव गुरूयते । सपत्नीव सपनायते । सपतीयते । सपनीयते । युवतिरिव युवायते । पटवीमृद्ध्याविव कुट्यामिति । प्रासादे इव कुट्या हृष्टो वर्तते इत्यर्थः । कुटीयति प्रासादे इति । कुट्यामिव प्रासादे क्लिष्टो वर्तते इत्यर्थः । कर्तुः क्यङ् सलोपश्च । कर्तुरित्यावर्तते । कर्तुः क्यडित्येकं वाक्यम् । अत्र कर्तुरिति पञ्चम्य तम् । उपमानादाचारे इत्यनुवर्तते । 'धातोः कर्मण:-' इत्यतो वेति च, तदाह उपमानादिति । उप. मानं यत्कर्तृकारकं तवृत्तेः सुबन्तादित्यर्थः । कर्तुः सलोपश्चेति द्वितीयं वाक्यम्। चकारः तुपर्यायो भिन्न कमः । स इति लुप्तषष्ठीकं पृथक्पदम् । कर्तुरिति । प्ठ्यन्तस्य विशेषणम् । तदन्तविधिः, तदाह सान्तस्य लोपस्त्विति । एतच्च महाभ ध्ये स्पष्टम् । क्यकि सलोपविकल्पः सर्वत्र स्यादित्यत आह स च व्यवस्थित इति । सान्तस्य सलोप इत्यर्थः । व्यवस्थामेव दर्शयति ओजसोऽसरस इति । इदं वार्तिकम् । प्रोजशब्द इति । क्यङन्तोऽयम् । सनाद्यन्ता इति धातुत्वाद् वृत्तिः। तत्र प्रोजशब्द ओजस्विनि वर्तत इत्यर्थः। ओजायते इति। ओजस्वीवाचरतीत्यर्थः । ओजश्शब्दात् क्यलि सलोपे 'अकृत्सार्व-' इति दीर्घ इति भावः । अप्सरायते इति । अप्सरश्शब्दात् क्याङि सलोपदी! । क्या ठित्वादात्मनेपदम् । इतरेषां विभाषयेत्यस्योदाहरति यशायते, यशस्यते इति । यशस्वीवाचरतीवर्तत इत्याह क्यङ् वा स्यादिति । सेति लुप्तषष्ठीकं कर्तृविषणमित्याह सान्त. स्येति । चकारस्तु अन्वाचये बोध्यः । तद्वतीति । तथा च श्रीजायत इत्यत्र ओजस्वीवाचरतीति विग्रहो बोध्यः । विद्वस्यत इति । नान्तस्यैव पदत्वात्सस्य रुत्वं न । पुंवद्भावं स्मारयति क्यङ्मानिनोश्चेति । सपतीवेति । त्रितयसाधारणं विग्रहवाक्यम् । सपनायत इति । शत्रुपर्यायात्सपरशब्दाच्छारिवादिङी. नन्तात्क्यठि पुंवद्भावे 'अकृत्सार्व-' इति दीर्घ च रूपमिदम् । सपतीयत इति । समानखामिकाभिधायिनो भाषितपुंस्कस्य 'नित्यं सपन्यादिषु' इति नादेशे नान्तत्वान् जीप, ततः क्यछि पुंवद्भावे च दीर्घः । सपत्नीयत इति । विवाहजन्यसंस्कार